अधोलिखित गद्यांशों को पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार दें –

WhatsApp Group Join Now
Telegram Group Join Now
प्रश्न-  अधोलिखित गद्यांशों को पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार दें –
(अ) हिमालयः भारतस्य उत्तरदिशायां स्थितः अस्ति। अस्य शिखराणि सर्ववर्षम् हिमेन आच्छादितानि सन्ति । अतएव तु अयं हिमस्य आलयः इति हिमालयः कथ्यते । ग्रीष्मस्य तापेन जना: प्रतिवर्ष ग्रीष्मे तत्र गच्छन्ति। अनेके रुग्णाः जनाः अपि तस्य पवित्रे वातावरणे स्वस्थाः भवन्ति । अत्र अनेकानि दर्शनीयानि स्थानानि सन्ति । प्रतिवर्ष भक्ताः अत्र आगच्छन्ति। बद्रीनाथे केदारनाथे च मन्दिरेषु ईश्वरस्य दर्शनं कुर्वन्ति । हिमालयात् एव गंगा, शतद्रुः चन्द्रभागाः इत्यादयः नद्यः प्रवहन्ति । हिमालय: प्रहरी इव भारतं रक्षति। अस्य रक्षणे एवं भारतस्य रक्षणम्।
(i) एकपदेन उत्तरत –
(क) भारतस्य उत्तरदिशायां कः अस्ति?
(ख) अस्य रक्षणे कस्य रक्षणम् ?
(ii) पूर्णवाक्येन उत्तरत –
(क) हिमालयः प: कुत्र स्थितः अस्ति ?
 (ख) भक्ताः मन्दिरेषु कस्य दर्शनं कुर्वन्ति ?
(iii) अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत ।
 अथवा,
विजयादशमी अस्माकं देशस्य प्रमुखं पर्वम् अस्ति। अस्मिन् दिने भगवान् श्रीरामः लंकापति रावणं युद्धे अजयत् । अयम् उत्सवः अश्विन् मासस्य दशम्यां तिथौ मन्यते, अतः अलं विजयादशमी इत्युच्यते। लंकापतिः रावण: छलेन सीताम् अहरत् अशोकवाटिकायां च अरक्षत्। तस्य वधेन रामः सन्दिशति यत् कदापि मानवेन असुराचरणं नैव कर्त्तव्यम् । रावणस्य वधः आसुरीणां प्रवृत्तीनां वध एव अस्ति।
(I) एकपदेन उत्तरत –
(i) अस्माकम् देशस्य प्रमुख पर्व किम् ?
(ii) श्रीराम: युद्धे कं अजयत् ?
(II) पूर्णवाक्येन उत्तरत –
(i) ‘विजयादशमी’ इति नाम कथं प्राचलत् ?
(ii) रावणस्य वधः कासां वधः अस्ति?
 (iii) अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत ।
 (ब) एकस्मिन् वने एकः भिक्षुकः वसति। सः प्रतिदिनं भिक्षायै नगरं गच्छति । एकदा एका महिला तस्मै विषाक्तां रोटिकां अयच्छत् । सः तां रोटिकां स्वकुटीरं नयति । मध्याह्ने एकः बालः वने सूर्यस्य तापेन मूर्च्छितः भवति। सः भिक्षुकः चिन्तयति यत् सः क्षुधापीडितः अस्ति। सः तां रोटिकां तस्मै बालाय यच्छति। सः तस्मै जलम् अपि यच्छति । सः बाल जलं पिबति रोटिकां च खादति। यदा सः रोटिकां खादति तदा विष प्रभावात् स्वप्राणान् त्यजति । तदा तस्य अम्बा तत्र आगच्छति । तस्य अम्बा तु सा एव महिला आसीत् या तस्मै भिक्षुकाय रोटिकाम् अयच्छत् । जनाः तु सत्यं कथयन्ति– “यथा कर्म तथा फलम्”।
(i) एकपदेन उत्तरत –
(क) वने कः वसति ?
(ख) प्राणान् कः त्यजति ?
(ii) पूर्णवाक्येन उत्तरत –
(क) भिक्षुकः किं चिन्तयति ?
(ख) बाल: प्राणान् कदा त्यजति ?
अथवा,
लोकमान्य तिलक: महान् देशभक्तः राजनीतिज्ञश्च आसीत्। सः उद्घोषयत्-स्वतंत्रता अस्माकं जन्मसिद्धः अधिकारः वर्तते । ” स्वराज्याय सः अतिकष्टम् असहत्। स्वतंत्रता विना देशः सुखी न भवति । कारागारे सः गीतारहस्यम् नामकं प्रसिद्धं पुस्तकं अलिखत्। अस्य महापुरुषस्य जन्मः महाराष्ट्रस्य रत्नागिरिनामि स्थाने अभवत् । वयं तस्मात् शिक्षा गृहणीयाम् ।
(I) एकपदेन उत्तरत –
(i) कः महान् देशभक्तः आसीत् ?
(ii) स्वराज्याय सः किम् असहत् ?
 (II) पूर्णवाक्येन उत्तरत –
(i) तिलकः कारागारे किम् अकरोत् ?
(ii) लोकमान्यस्य जन्मः कुत्र अभवत् ?
उत्तर –
(अ)
(i) (क) हिमालयः
(ख) भारतस्य
(ii) (क) हिमालयः भारतस्य उत्तरदिशायां स्थितः अस्ति।
(ख) भक्ताः मन्दिरेषु ईश्वरस्य दर्शनं कुर्वन्ति ।
(iii) हिमालय:
अथवा,
(I) (i) विजयादशमी
(ii) रावणम्
(II) (i) अयं उत्सव: अश्विन मासस्य दशम्यां तिथौ मन्यते, अतः अयं विजयादशमी इति उच्चते।
(ii) रावणस्य वध: आसुरीणां प्रवृतीणां वधः अस्ति।
 (III) विजयादशमी
(ब)
(i) (क) भिक्षुकः
(ख) बाल:
(ii) (क) भिक्षुकः चिन्तयति यत् सः बाल: क्षुधापीड़ितः अस्ति।
(ख) यदा बालः रोटिकां खादति तदा विषप्रभावात् स्वप्राणान् त्यजति।
अथवा,
(I) (i) लोकमान्य तिलक:
 (ii) अतिकष्टम्
(II) (i) तिलक: कारागारे गीतारहस्यं नामकं प्रसिद्धं पुस्तकं अलिखत्।
(ii) लोकमान्यस्य जन्म: महाराष्ट्रस्य रत्नागिरिनामि स्थाने अभवत् ।
पाटलिपुत्रगत्
तिथि: 27.02.2019
पूज्य पितृणां,

हमसे जुड़ें, हमें फॉलो करे ..

  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *