निम्नलिखित में से किसी एक विषय पर संस्कृत में सात वाक्यों का अनुच्छेद लिखें ।
प्रश्न- निम्नलिखित में से किसी एक विषय पर संस्कृत में सात वाक्यों का अनुच्छेद लिखें ।
(i) कालिदासः
(ii) वर्षा ऋतु:
(iii) अस्मांक ग्राम:
(iv) संस्कृतस्य महत्त्वम्
उत्तर –
(i) कालिदास :
अस्मिन् संसारे कवयस्तु बहवः श्रूयन्ते, परन्तु सर्वेषु कविषु श्रेष्ठः कालिदासः एव । मेघदूतम्, कुमारसंभवम्, रघुवंशम्, अभिज्ञानशाकुन्तलम् इत्यादयः अस्यैव रचना अस्ति । नाटकेषु ‘अभिज्ञानशाकुन्तलम्’ श्रेष्ठम्। विश्वे साहित्यक्षेत्रे अस्य प्रतिष्ठा सर्वतो विशिष्टा। खण्डकाव्येषु मेघदूतम् अधिकं प्रसिद्धम् अस्ति । ‘उपमा कालिदासस्य’ उक्ति प्रसिद्धम् अस्ति महाकवेः विषये। ‘रघुवंशम्’ महाकाव्ये समुद्रस्य वर्णनम् अपि प्रसिद्धम् अस्ति। शृंगारस्य वर्णने लालित्ये माधुर्ये च कालिदासेन समं कोऽपि अन्यः कविः न अवलोक्यते ।
(ii) वर्षा ऋतु:
भारतवर्षे वर्षाऋतुः अतिमहत्त्वपूर्णः अस्ति। अस्मिन् ऋतौ विशेषतया कृषकाः अतिप्रसन्नाः भवन्ति। ग्रीष्मकालस्य आतपस्य न भवति अस्मिन् समये। धरा शस्यश्यामला भवति । सरः जलपूर्ण भवति। मयूराः आकाशे मेघं दृष्ट्वा नृत्यन्ति वने । अतएव ऋतुरानी कथ्यते वर्षाऋतुः ।
(iii) अस्माकं ग्राम:
मम ग्रामस्य नाम पहरपुरग्रामः अस्ति। एषः ग्रामः गङ्गायाः तटे अवस्थितम् अस्ति । अस्मिन् ग्रामे मध्यविद्यालयः, उच्चतर माध्यमिक विद्यालयः, विशाल पुस्तकालयः, क्रीडाक्षेत्रम् च सन्ति । एषः ग्रामः कृषि-प्रधानः अस्ति । अत्रत्याः जनाः विद्युतप्रवाहम्, आधुनिक सञ्चार व्यवस्थाम्, यातायात साधनानि कृषिकर्मणे यंत्रोपस्कारादीनि च जीवने व्यवहारं कुर्वन्ति । अत्र समाजे सामञ्जस्यम् अपि अस्ति। शुद्धं जलम्, निर्मलो वायुः, स्वपरिश्रमम् अर्जितम् अन्नम्, जनानां च परिमिता संख्या कारणात् एव एषः ग्राम: आदर्शग्रामः अस्ति।
(iv) संस्कृतस्य महत्त्वम्
संस्कृतभाषायाः महत्त्वं संस्कृतशब्द एव प्रकटयति। अद्यापि संस्कृतभाषा सर्वेषां कृते आवश्यकम् अस्ति, यतः बहुनां भारतीयभाषाणां जननी अस्ति। 2796 भाषासु मध्ये एषा एका भाषा यत् लेख भवति तत् एव उच्चारणं भवति । संसारस्य सर्वश्रेष्ठानि पुस्तकानि संस्कृते एव लिखितानि सन्ति । एषा भाषा विश्वस्य प्राचीनतमा सर्वोत्तमा चास्ति। अस्याः व्याकरणं पाणिनि निर्मितानि सूत्राणि च जगतः आञ्चर्यम्। अस्याः शब्दभण्डारः अक्षयः अक्षुण्णश्च सदा वर्तते ।
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here