अधोलिखित गद्यांशों को ध्यानपूर्वक पढ़कर उस पर आधारित प्रश्नों के उत्तर निर्देशानुसार दें –

प्रश्न- अधोलिखित गद्यांशों को ध्यानपूर्वक पढ़कर उस पर आधारित प्रश्नों के उत्तर निर्देशानुसार दें – 
(अ) ग्रामीणाः दैनिकावश्यकतानां पूर्ति तु ग्रामादेव कुर्वन्ति। चणकान्, गोधूमान्, तण्डुलान्, शर्करा:, द्विदलान्, शाकान्, वस्त्राणि च ग्रामादेव लभन्ते । कर्गद-पुस्तिकानि तु समीपस्थं नगरं गत्वा एव क्रीणन्ति । उत्पादितम् अधिकम् अन्नं विक्रेतुं समीपस्था मण्डीं नयन्ति। यदि ग्रामे विद्यालयः नास्ति तदा ग्रामवासिनः स्वबालान् पठनाय नगरेषु प्रेषयन्ति चित्रपटादिदर्शनार्थम् अपि ग्रामीणा: नगरं गच्छन्ति ।
(i) एकपदेन उत्तरत –
(क) ग्रामीणा: दैनिकावश्यकतानां पूर्त्ति कुतः कुर्वन्ति
 (ख) ग्रामीणा: किमर्थ नगरं गच्छन्ति ?
(ii) पूर्णवाक्येन उत्तरत –
(क) ग्रामीणा: नगरं गत्वा कि क्रीणन्ति ?
(ख) ग्रामीणा: समीपस्थां मण्डी कि नयन्ति ?
(iii) अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत।
अथवा,
भाषाविज्ञानस्य सम्यक् ज्ञानार्थं संस्कृतस्य ज्ञानम् अनिवार्यम् अस्ति। काव्यशास्त्रस्य नाट्यशास्त्रस्य च अपि विवेचनं संस्कृतस्य ज्ञानं बिना न कोऽपि कर्तुं शक्नोति । भारतीय पुरातत्त्वस्य छात्राणां कृते तु संस्कृतस्य ज्ञानम् अपरिहार्यं वर्तते । प्राच्यभारोपीय भाषाणां सम्यक्परिपालनाय संस्कृतस्य ज्ञानम् अत्यावश्यकं वर्तते । भारतीयधर्मस्य, संस्कृतेः तत्त्वज्ञानस्य च परिशीलनार्थ संस्कृतम् एव एक: आधारः अस्ति।
(i) एकपदेन उत्तरत –
(क) भारतीय पुरातत्त्वस्य छात्राणां कृते संस्कृतस्य ज्ञानं किं वर्तते?
(ख) भारतीयधर्मस्य परिशीलनार्थम् एकः एव आधारः किम् अस्ति ?
(ii) पूर्णवाक्येन उत्तरत –
(क) कोऽपि संस्कृतस्य ज्ञानं बिना किं कर्तुं न शक्नोति ?
(ख) कथं संस्कृतस्य ज्ञानम् अत्यावश्यकं वर्तते ?
(iii) अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत।
(ब) जलमालिन्यम् इति किम् ? जले यदा अनपेक्षितानि हानिकारकाणि विषाक्तानि रासायनिकवस्तूनि, अम्लानि, तैलादीनि विलीयन्ते तदा तादृशं जलं प्राणधारणाय उपयोगाय वा योग्यं न भवति । इदं जलमालिन्यम् इति उच्चते । एतादृशे मलिने जले जलजन्तवः जीवितुम् अशक्ताः भवन्ति, सद्यो म्रियन्ते च । जलजन्तूनां प्राणधारणाय जले विलीन: ऑक्सीजन अनिलः अत्यावश्यकः ।
(i) एकपदेन उत्तरत –
(क) मलिनं जलं किमर्थं योग्यं न भवति?
(ख) के मलिने जले जीवितुम् अशक्ताः भवन्ति ?
(ii) पूर्णवाक्येन उत्तरत –
(क) जलमालिन्यं किम् अस्ति?
(ख) जलजन्तूनां प्राणधारणाय किम् आवश्यकम् अस्ति ?
अथवा,
संस्कृतशिक्षायां प्रथमाबाधा तावदियं यत् अस्यां शिक्षार्थिनां प्रायेणाभाव एव वर्तते । संस्कृतशिक्षाक्षेत्रे वर्तमानस्य शिक्षार्शिनाम् अभावस्य यदा कारणमन्विष्यते, तदा अस्माकम् एषः एव निष्कर्षः यत् सम्प्रति शिक्षायाः उद्देश्यमेव लोकैरेतात् स्वीकृतं यत् विविधोपभोग साधनानाम् अभिवृद्धये धनार्जनस्य सामर्थ्य प्राप्येत् । तच्च संस्कृतशिक्षापेक्षया इतरशिक्षाभिः इदनीम् अनायासेन स्वल्पायासेन वा भवितुं शक्नोति।
(i) एकपदेन उत्तरत –
(क) शिक्षार्थिनाम् अभावः कस्यां प्रथमाबाधा अस्ति?
 (ख) शिक्षार्थिनाम् अभावस्यं किमन्विष्यते?
(ii) पूर्णवाक्येन उत्तरत –
(क) लोकै: शिक्षायाः उद्देश्यं किं स्वीकृतम् ?
 (ख) अनायासेन स्वल्पायासेन वा धनार्जनं कैः भवितुं शक्नोति ?
उत्तर –
(अ)
खण्ड-ब (विषयनिष्ठ प्रश्न)
(i) (क) ग्रामादेव
(ख) चित्रपटादिदर्शनार्थम्
(ii) (क) कर्गद-पुस्तिकानि तु समीपस्थं नगरं गत्वा एव क्रीणन्ति ।
(ख) उत्पादितम् अधिकम् अन्नं विक्रेतुं समीपस्थां मण्डीं नयन्ति ।
(iii) ग्रामीणा:
अथवा,
(i) (क) अपरिहार्य
(ख) संस्कृतम्
(ii) (क) काव्यशास्त्रस्य नाट्यशास्त्रस्य च अपि विवेचनं संस्कृतस्य ज्ञानं बिना न कोऽपि कर्तुं शक्नोति
 (ख) प्राच्यभारोपीय भाषाणां सम्यक्परिपालनाय संस्कृतस्य ज्ञानम् अत्यावश्यकं वर्तते ।
(iii) भाषाविज्ञानम्
(ब)
(i) (क) प्राणधारणाय
(ख) एतादृशे जलजन्तवः
(ii) (क) जलमालिन्यम् अनपेक्षितानि हानिकारकाणि विषाक्तानि अस्ति ।
(ख) जलजन्तूनां प्राणधारणाय जले विलीन: ऑक्सीजन अनिलः अत्यावश्यकः अस्ति।
 अथवा,
(i) (क) प्रायेणाभाव
(ख) संस्कृतशिक्षाक्षेत्रे
(ii) (क) लोकै : शिक्षायाः उद्देश्यं लोकैरेतात् स्वीकृतम्।
(ख) तच्च संस्कृत शिक्षापेक्षया इतरशिक्षामिः इदानीम् अनायासेन स्वल्पायासेन वा भवितुं शक्नोति।

हमसे जुड़ें, हमें फॉलो करे ..

  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *