अधोलिखित गद्यांशों को ध्यानपूर्वक पढ़कर उस पर आधारित प्रश्नों के उत्तर निर्देशानुसार दें –A

प्रश्न- अधोलिखित गद्यांशों को ध्यानपूर्वक पढ़कर उस पर आधारित प्रश्नों के उत्तर निर्देशानुसार दें – 
(अ) अथ निरंतर वर्धमानेन प्रदूषणेन मानवजातिः विविधैः रोगैः अक्रान्ता दृश्यते । वैज्ञानिकाः अस्याः प्रदूषणसमस्यायाः समाधाने दिवानिशं प्रयतन्ते किन्तु यावद् देशस्य जनता पर्यावरणस्य रक्षणे कृतसंकल्पा न भविष्यति, तावद् इयं समस्या तथैव स्थास्यति । जनैः सम्यग् ज्ञातव्यं यत् पर्यावरणस्य रक्षणे एव अस्माकं रक्षणं भविष्यति । एतदर्थं स्थाने स्थाने वृक्षाः रोपणीयाः । वनानां छेदनं रोद्धव्यम्। पवनः शुद्धः भवेत् एतदर्थं प्रयत्नः करणीयः ।
(i) एकपदेन उत्तरत –
(क) पर्यावरणस्य रक्षणे केषां रक्षणं भविष्यति ?
(ख) स्थाने-स्थाने के रोपणीया:?
(ii) पूर्णवाक्येन उत्तरत
(क) पर्यावरणस्य रक्षणार्थं जनैः किं कर्तव्यम् ?
 (ख) जनैः सम्यक् किं ज्ञातव्यम् ?
(iii) अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत।
अथवा,
पेंग्विनपक्षिराजस्य कुलाय व्यवहारः अद्भुतः वर्तते । तस्य स्त्री हिमस्य उपरि केवलम् एकमेव अण्डं सूते सपदि च समुद्रं प्रति निवर्तते । पुमान् पेंग्विनपक्षी स्वशावकस्य उद्भवपर्यन्तम् अण्डं सेवते । स तदण्डं स्वपादयोः समीपे कृत्वा स्वशरीरस्य अधोभागेन आवृत्य तिष्ठति । तदा सः अन्यैः अनेकैः पुंभिः पेंग्विनपक्षिभिः साकं मासद्वयपर्यन्तम् अण्डं सेवमानः तिष्ठति । एतस्मिन् अन्तराले स किञ्चिदपि न खादति । अहो ! पितृवात्सल्यम्।
(i) एकपदेन उत्तरत –
(क) स्त्रीपेंग्विनपक्षी एकस्मिन् समये कति अण्डं सूते ?
 (ख) पेंग्विनपक्षिराजस्य कः अद्भुतः वर्तते?
(ii) पूर्णवाक्येन उत्तरत
(क) पुमान् पेंग्विनपक्षी कदा पर्यन्तं अण्डं सेवते ?
 (ख) पुमान् पेंग्विनपक्षी कैः साकं अण्डं सेवमानः तिष्ठति ?
(iii) अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत।
(ब) जीवने किमपि लक्ष्यम् अवश्यं भवेत् । लक्ष्यहीनं जीवनं तु पशुतुल्यमेव । लक्ष्यम् अपि परहितकारकं भवेत्। एतादृश्येन लक्ष्येण अस्माकं जीवनम् उत्साहपूर्णं भविष्यति । परोपकारेण एव मनुष्यः जीवने वास्तविकं सुखं शांति च प्राप्नोति । यदि जनाः आलोचनाम् अपि कुर्वन्ति, तथापि फलस्य चिंता बिना अग्रे गमनम् एव अस्माकं कर्तव्यम् ।
(i) एकपदेन उत्तरत –
(क) कस्य चिन्तां बिना अग्रे गन्तव्यम् ?
 (ख) जीवने किम् अवश्यं भवेत् ?
(ii) पूर्णवाक्येन उत्तरत –
(क) अस्माकं लक्ष्य कीदृशं भवेत् ?
(ख) मनुष्य जीवने केन सुखं प्राप्नोति ?
अथवा,
कि नाम संस्कृतिः ? चेतसः संस्करणं संस्कृतिः इति अभिधीयते। सा नाम संस्कृतिः या मनसः मलं अपनयति, चेतः चाञ्चल्यं दूरीकरोति, आत्मनश्च अज्ञानावरणम् अपसारयति । एषा लोकस्य राष्ट्रस्य संसृतेश्च उपकरोति । अस्मिन् विश्वे सा एव संस्कृतिः उपादेया वर्तते यया सर्वेषां स्वान्तेषु विश्वहितं विश्वबन्धुत्वं च आदर्शत्वेन उररीक्रियते ।
(i) एकपदेन उत्तरत –
(क) कस्य संस्करणं संस्कृतिः ?
(ख) का मनसः मलम् अपनयति ?
(ii) पूर्णवाक्येन उत्तरत –
(क) संस्कृति केषाम् उपकरोति ?
(ख) अस्मिन् विश्वे का संस्कृतिः उपादेया?
उत्तर –
(अ)
(i) (क) अस्माकं
(ख) एतदर्थ
(ii) (क) पर्यावरणस्य रक्षणार्थं जनैः कृतसंकल्पा कर्तव्यम् ।
(ख) जनैः सम्यग् ज्ञातव्यं यत् पर्यावरणस्य रक्षणे एवं अस्माकं रक्षणं भविष्यति।
 (iii) पर्यावरणस्य
अथवा,
(i) (क) उद्भावपर्यन्तम्
(ख) कुलाय व्यवहारः
(ii) (क) पुमान् पेंग्विनपक्षी स्वशावकस्य उद्भवपर्यन्तम् अण्डं सेवते ।
(ख) पुमान् पेंग्विनपक्षी साकं मासद्वय पर्यन्तम् अण्ड सेवमानः तिष्ठति।
 (iii) पेंग्विनपक्षी राजस्य
(ब)
(i) (क) गमनम्
(ख) लक्ष्यम्
 (ii) (क) अस्माकं लक्ष्यं पर हितकारकं भवेत् ।
 (ख) परोपकारेण एव मनुष्य जीवने वास्तविकं सुखं शांति च प्राप्नोति।
अथवा,
(i) (क) चेतसः
(ख) संस्कृति:
(ii) (क) एषा लोकस्य राष्ट्रस्य संसृतेश्च उपकरोति ।
(ख) अस्मिन् विश्वे का संस्कृतिः उपादेया वर्तते यया सर्वेषां स्वान्तेषु विश्वहितं विश्वबन्धुत्वं च आदर्शत्वेन उररीक्रियते ।

हमसे जुड़ें, हमें फॉलो करे ..

  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *