निम्नलिखित में से किसी एक विषय पर संस्कृत में सात वाक्यों का अनुच्छेद लिखें –

WhatsApp Group Join Now
Telegram Group Join Now
प्रश्न- निम्नलिखित में से किसी एक विषय पर संस्कृत में सात वाक्यों का अनुच्छेद लिखें – 
 (क) वाल्मीकिः
 (ख) दीपोत्सव:
(ग) अस्माकम् प्रियकविः
(घ) ए. पी. जे. अब्दुल कलामः
(ङ) क्रिकेट क्रीडा
उत्तर –
(क) वाल्मीकिः
वाल्मीकिः संस्कृतभाषायाः आदिकविः कथ्यते । पूर्वमस्य नाम रत्नाकर आसीत्। महर्षि वाल्मीकिः रामायणस्य रचयिता अस्ति । अयमेव सर्वप्रथमं कावस्य रचनाम् अकरोत् । अतः महर्षि वाल्मीकिः आदिकवत इति नाम्ना अपि विख्याताः अस्ति। अस्य रामायणं काव्यं आदिकाव्यम् मन्यते। अस्य आश्रमः तमसा नद्याः तीरे आसीत् । अयं महर्षि भगवतः श्रीरामस्य समकालिकः आसीत् । अयम् एकः महान् कवि चिन्तकः दार्शनिकः विद्वान् च असीत्।
(ख) दीपोत्सव:
दीपानाम् उत्सवः दीपोत्सवः कथ्यते । दीपावली नाम पर्व ज्योतिर्मय पर्व वर्तते पर्वेदं कातिक्याम् अमावस्यां भवतीति सा दीपावली नाम्ना आख्यायते। रामः लंका जित्वा यदा आयोध्याम् आगच्छत तदा अवधवासिनः दीपान् प्रज्वाल्य प्रकाशम् उत्सवैच अकुर्वन् । अतएव परम्परा क्रमेण प्रतिवर्षम् भारतवासिनः दीपावल्या आयोजनं कुर्वन्ति । अस्मिन् अवसरे जनाः गृहं अलङ्ककरणं कुर्वन्ति। रात्रौ गणेश-लक्ष्म्योः पूजनं कुर्वन्ति ।
(ग) अस्माकम् प्रियकविः
अस्माकं प्रियकविः कालिदासः अस्ति। सर्वेषु कविषु सः श्रेष्ठः अस्ति । मेघदूतम्, कुमार संभवम्, रघुवंशम्, अभिज्ञानशाकुन्तम्, इत्यादयः अस्य कवेः रचना अस्ति । नाटकेषु ‘अभिज्ञानशाकुन्तलम्’ श्रेष्ठं यस्य रचनाकारः अपि कालिदासः एव । विश्वसाहित्यक्षेत्रे अस्य प्रतिष्ठा सर्वतो विशिष्टा। खण्डकाव्येषु मेघदूतम् अतिप्रसिद्धम्। शृंगारस्य वर्णने लालित्ये माधुर्ये च कालिदासेन समं कोऽपि अन्यः कविः न अवलोक्यते ।
(घ) ए० पी० जे० अब्दुल कलामः
अस्माकं देशे अनेके महापुरुषाः अभवन् । तेषु ए० पी० जे. अब्दुल कलामः श्रेष्ठतमः वैज्ञानिकः आसीत्। अस्य जन्म तमिलनाडूप्रदेशस्य रामेश्वरम् नाम्नि स्थानेऽभवत् । अयं ‘मिशाइल मैन’ नाम्ना ज्ञायन्ते । भारतीय विज्ञान क्षेत्र अस्य अभूतपूर्वं योगदानम् अस्ति । राष्ट्रपतिः भूत्वा देशस्य सेवाम् अकरोत् । अद्य सः मृत्वा अपि अमरः अस्ति।
(ङ) क्रिकेट क्रीडा
यथा अध्ययनम् आवश्यकं तथैव खेलनम् अपि आवश्यकं शरीरस्य सुरक्षायाः अनुशासनस्य कृते । सम्प्रति खेलेषु क्रिकेट अति प्रचलितम् अस्ति विश्वमञ्चे। अस्मिन् खेले दलद्वयं भवति । प्रतिदले कादशक्रिडकाः भवन्ति । एकदिवसीय क्रिकेट खेलनम्, टेस्ट खेलनम्, ट्वेंटि-ट्वेंटि लनम् क्रिकेट खेलस्य प्रारूपः सन्ति । अस्य खेलस्य प्रारंभः इंगलैंड देशतः एव अभवत् । विश्व स्त्रीय, एशिया स्तरीय, भारत स्तरीय च सर्वदा क्रिकेट प्रतियोगितायाः आयोजनं भवति। सचिन, सहवाग, धोनी, विराट कोहली, गौतम गंभीर, रैना इत्यादि महत्त्वपूर्ण क्रिकेटक्क्रीडकाः सन्ति भारतवर्षे ।

हमसे जुड़ें, हमें फॉलो करे ..

  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *