Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 2 यद्भविष्यो विनश्यति [યવિષ્ય વિનાશ પામે છે. (ગઘ)]

WhatsApp Group Join Now
Telegram Group Join Now

Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 2 यद्भविष्यो विनश्यति [યવિષ્ય વિનાશ પામે છે. (ગઘ)]

स्वाध्यायः

प्र. 1. सन्धिविच्छेदं कुरुत – 
( 1 ) यद्भविष्यश्चेति = यद्भविष्यः + च + इति
( 2 ) श्रुतोऽयम् = श्रुतः + अयम्
( 3 ) प्रत्युत्पन्नमतिस्तथा = प्रत्युत्पन्नमतिः + तथा
प्र. 2. रेखाङ्कितानां पदानां स्थाने प्रकोष्ठात् उचितं पदं चित्वा प्रश्नवाक्यं रचयत –
(कदा, कस्मात् कीदृश:, केन, कः, किम् )
( 1 ) बहुमत्स्यः अयं हृदः ।
( 2 ) अस्माभिः रात्रौ एव समीपं सरः गन्तव्यम् ।
( 3 ) अनागतविधाता परिजनेन सह निष्क्रान्तः ।
( 4 ) प्रत्युत्पन्नमतिः जालात् अपसारितः ।
( 5 ) धीवरैः यद्भविष्यः व्यापादितः ।
उत्तरम् –
( 1 ) कीदृशः अयं हृदः ?
( 2 ) अस्माभिः कदा समीपं सरः गन्तव्यम् ?
( 3 ) अनागतविधाता केन सह निष्क्रान्तः ?
( 4 ) प्रत्युत्पन्नमतिः कस्मात् अपसारित: ?
( 5 ) धीवरैः कः व्यापादित: ?
प्र. 3. कथायाः क्रमानुसारेण वाक्यानि लिखत – 
( 1 ) अहं तावज्जलाशयान्तरं गच्छामि ।
( 2 ) पितृपैतामहिकस्य जलाशयस्य त्यागः न युज्यते ।
( 3 ) प्रमाणाभावात् कुत्र मया गन्तव्यम् ।
( 4 ) श्वः अत्र आगम्य मत्स्यकूर्मादयो व्यापादयितव्याः ।
( 5 ) धीवरैः जलाशये जालं क्षिप्तम् ।
( 6 ) यद्भविष्यः धीवरैः प्राप्तः व्यापादितः च ।
उत्तरम् –
( 1 ) श्व: अत्र आगम्य मत्स्यकूर्मादयो व्यापादयितव्याः।
( 2 ) अहं तावज्जलाशयान्तरं गच्छामि ।
( 3 ) प्रमाणाभावात् कुत्र मया गन्तव्यम् ।
( 4 ) पितृपैतामहिकस्य जलाशयस्य त्यागः न युज्यते ।
( 5 ) धीवरैः जलाशये जालं क्षिप्तम् ।
( 6 ) यद्भविष्यः धीवरैः प्राप्तः व्यापादितः च ।

વિશેષ પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत-

( 1 ) एकस्मिन् जलाशये किंनामधेयाः कति मत्स्याः अवसन् ?
उत्तरम् – एकस्मिन् जलाशये अनागतविधाता, प्रत्युत्पन्नमति:, यद्भविष्यः चेति नाम त्रयः मत्स्याः अवसन् ।
( 2 ) जलाशयं दृष्ट्वा धीवराः कं निश्चयम् अकुर्वन् ?
उत्तरम् – जलाशयं दृष्ट्वा धीवराः निश्चयम् अकुर्वन् यत् श्वः अत्रागम्य मत्स्यकूर्मादयो व्यापादयितव्याः ।
( 3 ) ‘नूनं प्रभातसमये धीवराः अत्रागम्य मत्स्यसंक्षयं करिष्यन्ति’ इति वचनं कस्य?
उत्तरम् – ‘नूनं प्रभातसमये धीवराः अत्रागम्य मत्स्यसंक्षयं करिष्यन्ति’ इदं वचनम् अनागतविधाता इति नाम्नः मत्स्यस्य ।
( 4 ) ‘ उत्पन्नामापदं यस्तु समाधत्ते स बुद्धिमान् । ‘ – इति सूक्तिं कः वदति ?
उत्तरम् – ‘उत्पन्नामापदं यस्तु समाधत्ते स बुद्धिमान् ।’ इति सूक्तिं प्रत्युत्पन्नमतिः वदति।
( 5 ) यद्भविष्यस्य मतानुसारं कीदृशस्य जलाशयस्य त्यागः न योग्यः ?
उत्तरम् – यद्भविष्यस्य मतानुसारं पितृपैतामहिकस्य जलाशयस्य त्यागः न योग्यः ।
(6) जालेन बद्धः प्रत्युत्पन्नमतिः केन प्रकारेण स्थितः ?
उत्तरम् – जालेन बद्धः प्रत्युत्पन्नमति मृतवद् आत्मानं संदर्श्य स्थितः ।
(7) कौ द्वौ सुखमेधेते ?
उत्तरम् – अनागतविधाता, प्रत्युत्पन्नमतिः च सुखमेधेते ।

प्र. 2. रेखाङ्कितानि पदानि शुद्धानि कृत्वा गद्यखण्डं पुनः लिखत- 

( 1 ) तन्न युक्तं सांप्रतं क्षणमपि अत्र अवस्थातुम् अस्माभिः रात्रौ एव किंचित् समीपं सरः गन्तव्यम् । अहं तावत् जलाशयांतरम् गच्छामि ।
उत्तरम् – तन्न युक्तं साम्प्रतं क्षणमपि अत्र अवस्थातुम् । अस्माभिः रात्रौ एव किञ्चित् समीपं सरः गन्तव्यम् । अहं तावत् जलाशयान्तरं गच्छामि ।
( 2 ) तं जलाशयं दृष्ट्वा धीवरैः उक्तं ‘अहो बहुमत्स्योऽयं हृदः । कदाचिद् अपि न अस्माभिः अंवेषितः । तदद्य आहारवृत्तिः संजाता । ”
उत्तरम् – तं जलाशयं दृष्ट्वा धीवरैः उक्तम् – “अहो बहुमत्स्योऽयं हृदः । कदाचिद् अपि न अस्माभिः अन्वेषितः तदद्य आहारवृत्तिः सञ्जाता । “

प्र. 3. अधोदत्तं गद्यखण्डं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत- 

(1) पुरा एकस्मिन् जलाशये अनागतविधाता, प्रत्युत्पन्नमति: यद्भविष्यश्चेति त्रयो मत्स्याः वसन्ति स्म । अथ कदाचित् तं जलाशयं दृष्ट्वा धीवरैः उक्तम् “अहो बहुमत्स्योऽयं हृदः । कदाचिद् अपि न अस्माभिः अन्वेषितः । तदद्य आहारवृत्तिः सञ्जाता । श्वः अत्रागम्य मत्स्यकूर्मादयो व्यापादयितव्याः इति निश्चयः । ” 
प्रश्नाः – (1) पुरा एकस्मिन् जलाशये के वसन्ति स्म ?
( 2 ) एकदा जलाशये के आगताः ?
( 3 ) धीवरैः किं दृष्ट्म् ?
( 4 ) हृदः कीदृशम् आसीत् ?
उत्तराणि – (1) पुरा एकस्मिन् जलाशये अनागतविधाता, प्रत्युत्पन्नमतिः यद्भविष्यः चेति नाम त्रयः मत्स्याः वसन्ति स्म ।
( 2 ) एकदा जलाशये धीवराः आगताः ।
( 3 ) धीवरै: एक जलाशयं दृष्ट्म् ।
( 4 ) हृदः बहुमत्स्यो आसीत् ।
( 2 ) अथ तेषां तत्कुलिशोपमं वचनं समाकर्ण्य मत्स्याः परस्परं प्राहु: – ” श्रुतोऽयं धीवरालापः । अधुना अस्माभिः किं कर्तव्यम्।” तत्र अनागतविधाता नाम मत्स्यः प्राह – ” नूनं प्रभातसमये धीवराः अत्रागम्य मत्स्यसंक्षयं करिष्यन्ति इति मम मनसि वर्तते । तन्न युक्तं साम्प्रतं क्षणमपि अत्र अवस्थातुम्। अस्माभिः रात्रौ एव किञ्चित् समीपं सरः गन्तव्यम् । “
प्रश्नाः – ( 1 ) धीवराणां वचनं कीदृशम् आसीत् ?
( 2 ) ‘ तन्न युक्तं साम्प्रतं क्षणमपि अत्र अवस्थातुम् इदं वाक्यं कः वदति ?
( 3 ) धीवराः प्रभातसमये आगत्य किं करिष्यन्ति ?
( 4 ) अनागतविधाता कुत्र गन्तुम् इच्छति ?
उत्तराणि – ( 1 ) धीवराणां वचनं कुलिशोपमम् आसीत् ।
( 2 ) ‘तन्न युक्तं साम्प्रतं क्षणमपि अत्र अवस्थातुम् ।’ इदं वाक्यं अनागतविधाता मत्स्यः वदति ।
( 3 ) धीवराः प्रभातसमये आगत्य मत्स्यसंक्षयं करिष्यन्ति ।
( 4 ) अनागतविधाता किञ्चित् समीपं सरः गन्तुम् इच्छति ।

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत-

( 1 ) जलाशये कति मत्स्याः आसन् ?
उत्तरम् – जलाशये त्रयः मत्स्याः आसन्।
( 2 ) श्वः अत्रागम्य धीवरैः के व्यापादयितव्याः ?
उत्तरम् – श्वः अत्रागम्य धीवरैः मत्स्यकूर्मादयः व्यापादयितव्याः ।
( 3 ) धीवराणां वचनं कीदृशम् आसीत् ?
उत्तरम् – धीवराणां वचनं वज्रसमानम् आसीत् ।
( 4 ) बुद्धिमान् किं समाधत्ते ?
उत्तरम् – बुद्धिमान् उत्पन्नामापदं समाधत्ते ।
( 5 ) यदभावि तस्य का दशा भवति ?
उत्तरम् – यदभावि तद् न भावि इदृशी दशा भवति ।
( 6 ) धीवरैः जलाशये कदा जालं क्षिप्तम् ?
उत्तरम् – धीवरैः अपरेद्युः जलाशये जालं क्षिप्तम्।

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –

( 1 ) ह्रदः – अगदः, नीरम्, सर:
( 2 ) प्रत्युत्पन्ना – अनागता, त्वरिता, चिकीर्षा
( 3 ) मत्स्य: – झष:, कूर्मः, मक्षिका
( 4 ) कूर्म :- मकरः, कर्कटकः, कमठः
( 5 ) कुलिश: – वज्रम्, शस्त्रम्, विषघ्नः
( 6 ) धीवर : – दासः, नाथः, दाशः
( 7 ) प्रभातम् – होरा, प्रदोष:, प्रत्युषः
( 8 ) साम्प्रतम् – अधुना, तदानीम्, सर्वथा
( 9 ) मृत्यु: – जनि:, निधन:, अपरः
(10) विषम् – गरलम्, सुधा, जालम्
उत्तरम् –
( 1 ) ह्रदः – सरः
( 2 ) प्रत्युत्पन्ना – त्वरिता
( 3 ) मत्स्यः – झषः
( 4 ) कूर्म : – कमठः
( 5 ) कुलिश: – वज्रम्
( 6 ) धीवर : – दाश:
( 7 ) प्रभातम् – प्रत्युषः
( 8 ) साम्प्रतम् – अधुना
( 9 ) मृत्यु: – निधनः
(10) विषम् – गरलम्

प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –

(1 ) उत्पन्नम् – अनुत्पन्नम्, जातम्, प्राप्तम्
( 2 ) प्रभातम् – प्रातःकाल, सायम्, रजनी
( 3 ) अधुना – तदानीम्, सम्प्रति, तदा
( 4 ) समीपम् – निकटे, दूरम्, अन्यत्र
( 5 ) आपदम् सम्पदम्, विपदम्, आपत्तिः
( 6 ) विषम् – क्ष्वेड:, पीयूषः, सगरम्
उत्तरम् –
( 1 ) उत्पन्नम् × अनुत्पन्नम्
( 2 ) प्रभातम् × सायम्
( 3 ) अधुना × तदानीम्
( 4 ) समीपम् × दूरम्
( 5 ) आपदम् × सम्पदम्
( 6 ) विषम् × पीयूषः

प्र. 3. अधोदत्तेभ्यः क्रियापदेभ्यः वर्तमानकालस्य उत्तमपुरुषस्य एकवचनस्य रूपं चित्वा लिखत –

( 1 ) वसामि, वसावः, वससि
( 2 ) एधेते, एधे, एधते
( 3 ) गच्छथः, गच्छति, गच्छामि
( 4 ) वर्तते, वर्ते, वर्तेते
( 5 ) भवामि, भवन्ति, भवथ
( 6 ) विनश्यति, विनश्यतः, विनश्यामि
उत्तरम् –
( 1 ) वसामि
( 2 ) एधे
( 3 ) गच्छामि
( 4 ) वर्ते
( 5 ) भवामि
( 6 ) विनश्यामि

प्र. 4. अधोदत्तेभ्यः क्रियापदेभ्यः सामान्यभविष्यकालस्य अन्यपुरुषस्य द्विवचनस्य रूपं चित्वा लिखत –

( 1 ) व्यापादयिष्यतः, व्यापादयिष्यति, व्यापादयिष्यामः
( 2 ) करिष्यामि, करिष्यतः, करिष्यसि
( 3 ) वर्तिष्यते, वर्तिष्यन्ते, वर्तिष्येते
( 4 ) भविष्यामः, भविष्यतः, भविष्यथः
( 5 ) एधिष्येते, एधिष्ये, एधिष्यावहे
( 6 ) पास्यति, पास्यसि, पास्यतः
उत्तरम् –
( 1 ) व्यापादयिष्यतः
( 2 ) करिष्यतः
( 3 ) वर्तिष्येते
( 4 ) भविष्यतः
( 5 ) एधिष्येते
( 6 ) पास्यतः

प्र. 5. अधोदत्तानां वाक्यानां ‘स्म’ प्रयोगं कृत्वा वाक्यं पुनः लिखत – 

( 1 ) पुरा एकस्मिन् जलाशये त्रयो मत्स्याः अवसन्।
( 2 ) अहं तावत् जलाशयान्तरम् अगच्छम् ।
( 3 ) इति मम मनसि अवर्तत ।
( 4 ) यद्भविष्यो अविनश्यत् ।
उत्तरम् –
( 1 ) पुरा एकस्मिन् जलाशये त्रयो मत्स्याः वसन्ति स्म ।
( 2 ) अहं तावत् जलाशयान्तरं गच्छामि स्म ।
( 3 ) इति मम मनसि वर्तते स्म ।
( 4 ) यद्भविष्यो विनश्यति स्म ।

प्र. 6. अधोदत्तानां पदानां सन्धियुक्तं पदं लिखत –

( 1 ) धीवरैः + उक्तम् = धीवरैरुक्तम्
( 2 ) बहुमत्स्यः + अयम् = बहुमत्स्योऽयम्
( 3 ) कदाचित् + अपि = कदाचिदपि
( 4 ) करिष्यन्ति + इति = करिष्यन्तीति
( 5 ) तदा + अन्यत्र = तदान्यत्र
( 6 ) मृत्युः + भविष्यति = मृत्युर्भविष्यति
( 7 ) श्रुतः + अयम् = श्रुतोऽयम्
( 8 ) द्वौ + इमौ = द्वाविमौ
( 9 ) धीवरैः + आगत्य = धीवरैरागत्य

प्र. 7. अधोदत्तानां पदानां सन्धिविच्छेदं कुरुत – 

( 1 ) त्रयो मत्स्याः = त्रयः + मत्स्याः
( 2 ) तदद्य = तत् + अद्य
( 3 ) चोक्तम् = च + उक्तम्
( 4 ) तत्रैव = तत्र + एव
( 5 ) अत एवोक्तम् = अतः + एव + उक्तम्
( 6 ) द्वावेतौ = द्वौ + एतौ
( 7 ) यस्तु = यः + तु

प्र. 8. अधोदत्तेभ्यः नामरूपेभ्यः तृतीया विभक्तेः एकवचनस्य रूपं चित्वा लिखत-

( 1 ) धीवरैः, धीवरं, धीवरेण
( 2 ) मत्स्य:, मत्स्येन, मत्स्यान्
( 3 ) यद्भविष्यौः, यद्भविष्यस्य यद्भविष्येण
( 4 ) परिजनेन, परिजनात्, परिजनयोः
( 5 ) जालानाम्, जालेन, जालैः
( 6 ) जलाशये, जलाशयाय, जलाशयेन
उत्तरम् –
( 1 ) धीवरेण
( 2 ) मत्स्येन
( 3 ) यद्भविष्येण
( 4 ) परिजनेन
( 5 ) जालेन
( 6 ) जलाशयेन
प्र. 9. अधोदत्तेभ्यः नामरूपेभ्यः षष्ठी विभक्तेः बहुवचनस्य रूपं चित्वा लिखत –
( 1 ) मत्स्याः, मत्स्यानाम्, मत्स्योः
( 2 ) धीवरौ, धीवरस्य, धीवराणाम्
( 3 ) गतम्, गतानाम्, गतेभ्यः
( 4 ) कुलिशानाम्, कुलिशेन, कुलिशात्
( 5 ) जलाशयस्य, जलाशयान्, जलाशयानाम्
( 6 ) सुखानाम्, सुखैः, सुखात्
उत्तरम् –
( 1 ) मत्स्यानाम्
( 2 ) धीवराणाम्
( 3 ) गतानाम्
( 4 ) कुलिशानाम्
( 5 ) जलाशयानाम्
( 6 ) सुखानाम्
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *