Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 11 यस्य जननं तस्य मरणम् [જેનો જન્મ તેનું મરણ. (ગઘ)]

WhatsApp Group Join Now
Telegram Group Join Now

Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 11 यस्य जननं तस्य मरणम् [જેનો જન્મ તેનું મરણ. (ગઘ)]

परिचयः

કથાના માધ્યમથી ઉપદેશ આપવાની પરંપરા અત્યંત પ્રાચીન છે. આ પરંપરાનો પ્રારંભ આર્યશૂરની જાતકમાલાથી થાય છે. તેમાં ભગવાન બુદ્ધના પૂર્વ જન્મની કથાઓ છે. પૂર્વના પોતાના વિવિધ જન્મોમાં બુદ્ધે ક્યાં અને કેવી રીતે ધર્મકાર્ય કર્યું હતું તે વિષયવસ્તુને લક્ષ્યમાં રાખીને આ કથાઓ ઘડવામાં આવી છે. એ પછી સંસ્કૃતસાહિત્યમાં ઘણું કથાસાહિત્ય લખાયું. આજે પણ આ કથાસાહિત્યમાં સતત વૃદ્ધિ થતી રહી છે.
સંસ્કૃત કથાઓની વિશેષતા એ છે કે તેમાં પાત્રોનું જે નામકરણ હોય છે તે પાત્રોનાં કર્મ અથવા ગુણને વ્યક્ત કરતું હોય છે.
विषयप्रवेशः – આ કથામાં બે પાત્રો છે : વિત્તદાસ અને કૂટનાથ. વિત્તદાસ એટલે પૈસાનો ગુલામ અને કૂટનાથ એટલે કૂટનીતિ ધરાવનાર. સંસ્કૃતમાં એક સૂક્તિ છે : તોમ: પાપસ્ય દ્વારળમ્ અર્થાત્ લોભ પાપનું કારણ છે. લોભ વિવિધ પાપો કરાવીને કેવી રીતે માણસને નુકસાન પહોંચાડે છે તે આ કથા પરથી સમજાય છે.

स्वाध्यायः

प्र. 1. अधोदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-
(1) वित्तदासः धनिकोऽपि कीदृशः आसीत् ?
A. सन्तुष्टः
B. उदार:
C. लुब्ध:
D. असन्तुष्टः
उत्तरम् – C. लुब्ध:
(2) कूटनाथस्य गृहे के अतिथयः भविष्यन्ति ? 
A. कुटुम्बिजना :
B. प्रातिवेशिका :
C. साधव:
D. ग्रामजना:
उत्तरम् – A. कुटुम्बिजना :
(3) वित्तदासः कूटनाथाय केन भावेन पात्राणि प्रायच्छत् ?
A. मात्रधर्मभावेन
B. दयाभावेन
C. मित्रधर्मभावेन
D. प्रातिवेशिकधर्मभावेन
उत्तरम् – D. प्रातिवेशिकधर्मभावेन
(4) कूटनाथः कदा पात्राणि प्रत्यर्पयितुं वित्तदासस्य गृहम् अगच्छत् ?
A. भोजनावसाने
B. पात्रोपयोगावसाने
C. कार्यावसाने
D. आगामिनिदिवसे
उत्तरम् – B. पात्रोपयोगावसाने
(5) किं सम्प्राप्य वित्तदासः विस्मितः अभवत् ?
A. पुरातनानि पात्राणि
B. अर्वाचीनानि पात्राणि
C. नूतनानि पात्राणि
D. गुरूणि पात्राणि
उत्तरम् – C. नूतनानि पात्राणि
(6) ‘भवतः सर्वाणि पात्राणि मृतानि ।’ इदं वाक्यं कः वदति ?
A. कूटनाथ:
B. वित्तदासः
C. कूटमति:
D. वित्तनाथ:
उत्तरम् – A. कूटनाथ:
प्र. 2. एकवाक्येन संस्कृतभाषायाम् उत्तरत –
( 1 ) कूटनाथः किमर्थं पात्राणि अयाचत ?
उत्तरम् – अतिथिभूतानाम् कुटुम्बिजनानाम् भोजनादिनिर्माणाय कूटनाथः पात्राणि अयाचत ।
( 2 ) किं सम्प्राप्य वित्तदासः प्रसन्नः सञ्जात: ?
उत्तरम् – अपत्यरूपेण नूतनानि पात्राणि सम्प्राप्य वित्तदासः प्रसन्नः सञ्जातः ।
( 3 ) कूटनाथगृहं गत्वा वित्तदासः किम् अयाचत ?
उत्तरम् – कूटनाथगृहं गत्वा वित्तदासः स्वकीयानि पात्राणि अयाचत ।
( 4 ) निर्जीवानां पात्राणां किं न सम्भवति ?
उत्तरम् – निर्जीवानां पात्राणां मरणं न सम्भवति ।
( 5 ) जगति किं सर्वथा ध्रुवं नश्यति ?
उत्तरम् – जगति यत्समुत्पन्नं तत् सर्वथा ध्रुवं नश्यति ।

હેતુલક્ષી પ્રશ્નોત્તર

ગદ્યલક્ષી

प्र. 1. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत –
( 1 ) वित्तदासः कूटनाथाय किमर्थं पात्राणि प्रायच्छत् ?
उत्तरम् – वित्तदासः कूटनाथाय प्रातिवेशिकधर्मपालनाय पात्राणि प्रायच्छत् ।
( 2 ) कूटनाथः कदा वित्तदासाय पात्राणि प्रत्यर्पयितुं वित्तदासगृहं गतः ?
उत्तरम् – कूटनाथः पात्राणां प्रयोगावसाने वित्तदासाय पात्राणि प्रत्यर्पयितुं वित्तदासगृहं गतः ।
( 3 ) यानि पात्राणि कूटनाथेन दत्तानि तानि कुत्र प्रसूतानि ?
उत्तरम् – यानि पात्राणि कूटनाथेन दत्तानि तानि तस्य गृहे प्रसूतानि ।
( 4 ) केषां जननं भवति ?
उत्तरम् – प्राणिनः जननं भवति ।
( 5 ) ‘त्वं मिथ्या वदसि । निर्जीवानां पात्राणां मरणं कथं सम्भवति ?’ – इदं वाक्यं कः वदति ?
उत्तरम् –‘त्वं मिथ्या वदसि । निर्जीवानां पात्राणां मरणं कथं सम्भवति ?’ – इदं वाक्यं वित्तदासः वदति ।
प्र. 2. अधोदत्तं गद्यखण्डं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत – 
(1) अस्ति वित्तदासो नाम प्रभूतलोभः समृद्धः कश्चित् वणिग्जनः। तस्य कूटनाथाभिधः वैश्यः प्रातिवेशिकः आसीत् । एकदा कूटनाथेन चिन्तितं यदयं वित्तदासः धनिकोऽपि लुब्धो वर्तते । अतः केनापि उपायेन मया असौ वञ्चनीयः। एवं विचार्य सः कूटनाथ : एकदा वित्तदासस्य गृहमुपगम्य अकथयत्, “भोः श्रेष्ठिन्, अस्माकं बहवः कुटुम्बिजनाः श्वः अतिथयः भविष्यन्ति। तेषामर्थे भोजनादिनिर्माणाय कानिचित् पात्राणि कृपया मह्यं यच्छतु।”
प्रश्नाः –
( 1 ) वित्तदासः कीदृशः अस्ति ?
( 2 ) वित्तदासस्य प्रातिवेशिकः कः आसीत् ?
( 3 ) एकदा कूटनाथेन केन चिन्तितम् ?
( 4 ) कूटनाथः कस्य गृहम् अगच्छत् ?
उत्तराणि –
( 1 ) वित्तदासः प्रभूतलोभः समृद्धः च वणिक् अस्ति ।
( 2 ) कूटनाथाभिधः वैश्यः वित्तदासस्य प्रातिवेशिकः आसीत् ।
( 3 ) एकदा कूटनाथेन चिन्तितं – ” यत् अयं वित्तदासः धनिकोऽपि लुब्धो वर्तते । अतः केनापि उपायेन मया असौ वञ्चनीयः।”
( 4 ) कूटनाथः स्वप्रातिवेशिकस्य वित्तदासस्य गृहम् अगच्छत् ।
(2) “भोः श्रेष्ठिन्, अस्माकं बहवः कुटुम्बिजनाः श्वः अतिथयः भविष्यन्ति। तेषामर्थे भोजनादिनिर्माणाय कानिचित् पात्राणि कृपया मह्यं यच्छतु । परश्वः तानि प्रत्यर्पयिष्यामि । ” प्रातिवेशिकधर्मभावेन वित्तदासः कूटनाथाय पात्राणि प्रायच्छत् । पात्रोपयोगावसांने कूटनाथ: पात्राणि प्रत्यर्पयितुं वित्तदासस्य गृहमगच्छत् । तैः पात्रैः सह कूटनाथः अन्यानि कानिचित् लघूनि नूतनानि पात्राणि अपि तत्र स्थापितवान् । लघूनां नूतनानां पात्राणां दर्शनेन विस्मितः वित्तदासः कूटनाथमपृच्छत्, “भो वयस्य! एतानि पात्राणि मम न सन्ति।”
प्रश्नाः –
( 1 ) कूटनाथस्य गृहे के अतिथयः भविष्यन्ति ?
( 2 ) वित्तदासः कूटनाथाय केन भावेन पात्राणि प्रायच्छत् ?
( 3 ) कूटनाथः कदा पात्राणि प्रत्यर्पयितुं वित्तदासस्य गृहम् अगच्छत् ?
( 4 ) क: नूतनानि पात्राणि स्थापितवान् ?
उत्तराणि –
( 1 ) कूटनाथस्य गृहे तस्य बहव: कुटुम्बिजनाः अतिथयः भविष्यन्ति ।
( 2 ) वित्तदास कूटनाथाय प्रातिवेशिकधर्मभावेन पात्राणि प्रायच्छत् ।
( 3 ) पात्रोपयोगावसाने कूटनाथः पात्राणि प्रत्यर्पयितुं वित्तदासस्य गृहम् अगच्छत्।
( 4 ) कूटनाथ : नूतनानि पात्राणि स्थापितवान् ।

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
( 1 ) गृहम् – कवषः, गूढम्, सदनम्
( 2 ) कृपया – दयया, शङ्कया, पीड्या
( 3 ) नूतनानि – नष्टानि, पात्राणि, नवानि
( 4 ) प्रसन्न : – रुष्टः, प्रमुदितः, गतः
( 5 ) मृतानि जातानि दत्तानि, नष्टानि
( 6 ) प्रातिवेशिकः – समकालिकः, उपवेशिकः, वैदेशिकः
( 7 ) प्रभूतम् – अत्यन्तम्, अल्पम्, लवकणिका
( 8 ) धनिकः – दरिद्रः, समृद्धः, आपणिकः
( 9 ) वैश्यः – वणिक्, क्षत्रपः, विप्रः
(10) वयस्य:- – मित्रः, मित्रम्, द्विषत्
उत्तरम् –
( 1 ) गृहम् – सदनम्
( 2 ) कृपया – दयया
( 3 ) नूतनानि – नवानि
( 4 ) प्रसन्नः – प्रमुदितः
( 5 ) मृतानि – नष्टानि
( 6 ) प्रातिवेशिक : – उपवेशिक :
( 7 ) प्रभूतम् – अत्यन्तम्
( 8 ) धनिकः – समृद्धः
( 9 ) वैश्यः – वणिक्
(10) वयस्य: – मित्रम्
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत- –
( 1 ) समृद्ध : – दरिद्रः, असितः, अपढः
( 2 ) लघुः – अनुविद्ध, विशालम्, सामि
( 3 ) रात्रि :- शर्वरी, यामिनी, दिनः
( 4 ) जात : – उत्पादयितः मृतः, अधः
( 5 ) शान्तवचसा – उपशमेन, अशान्तवचसा, शुद्धवचसा
( 6 ) मृतानि – जीवितानि, चिरायु:, दीर्घजीवी
(7.) लाभ: – शुभः, हानि:, कपित्थः
( 8 ) लुब्ध: – अलुब्धः, कम्बुकः, उन्मत्तः
उत्तरम् –
(1) समृद्ध : × दरिद्रः
( 2 ) लघुः × विशालम्
( 3 ) रात्रिः × दिनः
( 4 ) जात: × मृत:
( 5 ) शान्तवचसा × अशान्तवचसा
( 6 ) मृतानि × जीवितानि
( 7 ) लाभ: × हानि:
( 8 ) लुब्ध: × अलुब्ध:
प्र. 3. रेखाङ्कितपदानां कृदन्तप्रकारं लिखत –
( 1 ) एवं विचार्य सः कूटनाथः अकथयत् ।
( 2 ) नूतनानि पात्राणि अपि तत्र स्थापितवान् ।
( 3 ) कूटनाथः धैर्यम् अवलम्ब्य शान्तवचसा अवदत् ।
( 4 ) वित्तदासः प्रसन्नः जातः ।
( 5 ) कूटनाथः पात्राणि प्रत्यर्पयितुं वित्तदासस्य गृहमगच्छत् ।
( 6 ) केनापि उपायेन मया असौ वञ्चनीयः ।
( 7 ) अहं किं कर्तुं समर्थः ।
उत्तरम् –
( 1 ) विचार्य – सम्बन्धक भूतकृदन्तम्
( 2 ) स्थापितवान् – कर्तरि भूतकृदन्तम्
( 3 ) अवलम्ब्य – सम्बन्धक भूतकृदन्तम्
( 4 ) जात : – कर्मणि भूतकृदन्तम् ।
( 5 ) प्रत्यर्पयितुम् – हेत्वर्थ कृदन्तम् ।
( 6 ) वञ्चनीयः – विध्यर्थ कृदन्तम् ।
( 7 ) कर्तुम् – हेत्वर्थ कृदन्तम् ।
प्र. 4. अधोदत्तेभ्यः नामरूपेभ्यः प्रथमा द्वितीया विभक्तेः बहुवचनस्य रूपं चित्वा लिखत –
( 1 ) नूतनं, नूतने, नूतनानि
( 2 ) पात्राणि, पात्रेण, पात्रम्
( 3 ) धनिकः, धनिकौ, धनिकान्
( 4 ) लघुः, लघूनि, लघूनाम्
( 5 ) जातानि, जातस्य, जातेभ्यः
( 6 ) वयस्येन, वयस्यान्, वयस्याभ्याम्
उत्तरम् –
( 1 ) नूतनानि
( 2 ) पात्राणि
( 3 ) धनिकान्
( 4 ) लघूनि
( 5 ) जातानि
( 6 ) वयस्यान्
प्र. 5. अधोदत्तेभ्यः नामरूपेभ्यः षष्ठी विभक्तेः बहुवचनस्य रूपं चित्वा लिखत – 
( 1 ) पात्राणाम्, पात्रेभ्यः, पात्रेषु
( 2 ) वित्तदासस्य, वित्तदासयोः, वित्तदासानाम्
( 3 ) अधिकं, अधिकानां, अधिकेभ्यः
( 4 ) लघुना, लघोः, लघूनाम्
( 5 ) नूतने, नूतनानां, नूतनाय
( 6 ) निर्जीवस्य, निर्जीवात्, निर्जीवानाम्
उत्तरम् –
( 1 ) पात्राणाम्
( 2 ) वित्तदासानाम्
( 3 ) अधिकानाम्
( 4 ) लघूनाम्
( 5 ) नूतनानाम्
( 6 ) निर्जीवानाम्
प्र. 6. अधोदत्तेभ्यः नामरूपेभ्य सप्तमी विभक्तेः बहुवचनस्य रूपं चित्वा लिखत –
( 1 ) दिवसे, दिवसयो:, दिवसेषु
( 2 ) कतिपयेषु, कतिपयानां, कतिपयान्
( 3 ) वञ्चकात्, वञ्चकेषु, वञ्चकेभ्यः
( 4 ) कूटनाथाः, कूटनाथेभ्यः, कूटनाथेषु
( 5 ) अपत्यानि, अपत्येषु, अपत्ययोः
उत्तरम् –
( 1 ) दिवसेषु
( 2 ) कतिपयेषु
( 3 ) वञ्चकेषु,
( 4 ) कूटनाथेषु
( 5 ) अपत्येषु
प्र. 7. अधोदत्तेभ्यः क्रियापदेभ्यः सामान्यभविष्यकालस्य मध्यमपुरुषस्य द्विवचनस्य रूपं चित्वा लिखत –
( 1 ) दास्यति, दास्यथः, दास्यथ
( 2 ) भविष्यामि, भविष्यन्ति, भविष्यथः
( 3 ) विलसिष्यसि, विलसिष्यामः, विलसिष्यथः
( 4 ) याचिष्ये, याचिष्येथे, याचिष्यध्वे
( 5 ) प्रार्थयिष्येथे, प्रार्थयिष्यावहे, प्रार्थयिष्यन्ते
( 6 ) वर्तिष्यते, वर्तिष्येथे, वर्तिष्यामहे
उत्तरम् –
( 1 ) दास्यथः
( 2 ) भविष्यथः
( 3 ) विलसिष्यथः
( 4 ) याचिष्येथे
( 5 ) प्रार्थयिष्येथे
( 6 ) वर्तिष्येथे
प्र. 8. अधोदत्तानां सामासिकपदानां समासप्रकारं लिखत-
( 1 ) प्रभूतलोभः
( 2 ) भोजनादिनिर्माणाय
( 3 ) सशोकम्
( 4 ) वणिग्जन:
( 5 ) कोपाविष्टः
( 6 ) अतिथि:
उत्तरम् –
( 1 ) प्रभूतलोभ : – बहुव्रीहि समासः
( 2 ) भोजनादिनिर्माणाय – षष्ठी तत्पुरुष समासः
( 3 ) सशोकम् – अव्ययीभाव समासः
( 4 ) वणिग्जन: – कर्मधारय समासः
( 5 ) कोपाविष्टः – तृतीया तत्पुरुष समासः
( 6 ) अतिथि: – बहुव्रीहि समासः
प्र. 9. अधोदत्तानां पदानां सन्धिविच्छेदं कुरुत-
( 1 ) धनिकोऽपि = धनिकः + अपि
( 2 ) परश्वस्तानि = परश्वः + तानि
( 3 ) पात्राणामपत्यानि = पात्राणाम् + अपत्यानि
( 4 ) यदयम् = यत् + अयम्
( 5 ) पुनरपि = पुन: + अपि
( 6 ) व्यतीतेऽपि = व्यतीते + अपि
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *