Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 1 समर्चनम्

Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 1 समर्चनम्

સ્વાધ્યાય

प्र. 1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत – 

(1) कम् पुरोहितम् ईडे?
उत्तरम् – अग्निं पुरोहितम् ईडे ।
(2) यज्ञस्य देवः कः अस्ति ? 
उत्तरम् – यज्ञस्य देवः अग्निः अस्ति ।
(3) अहं किं चरिष्यामि ? 
उत्तरम् – अहम् अनृतात् सत्यं प्रति गमनाय व्रतं चरिष्यामि ।
(4) दिव्यैः स्तवै: के स्तुवन्ति ?
उत्तरम् – ब्रह्मा, वरुणः, इन्द्र:, रुद्र:, मरुतः च दिव्यैः स्तवैः स्तुवन्ति ।
(5) वयं कं शरणं व्रजाम: ? 
उत्तरम् – वयं निरालम्बम् ईशं शरणं व्रजामः ।

प्र. 2. प्रकोष्ठात् उचितं पदं चित्वा वाक्यपूर्ति कुरुत –

(1) अहं ……. रत्नधातमम् ईळे । (अग्निम्, यज्ञम्, पुरोहितम्)
(2) इदम् अहम् ……. उपैमि । (अनृतात्, सत्यम्, व्रतम्)
(3) योगिनः ……. पश्यन्ति । (ज्ञानेन, चक्षुषा, मनसा )
(4) सुरासुरगणाः देवस्य ……… न विदुः । (स्वरूपम्, निवासम्, अन्तम्)
(5) वयं त्वां जगत्साक्षिरूपम् …….. । (भजामः, नमामः, स्मरामः)
उत्तरम् –
(1) अहम् अग्निं रत्नधातमम् ईळे ।
(2) इदम् अहं सत्यम् उपैमि
(3) योगिनः मनसा पश्यन्ति ।
(4) सुरासुरगणाः देवस्य अन्तं न विदुः ।
(5) वयं त्वां जगत्साक्षिरूपं नमामः ।

प्र. 3. प्रकोष्ठगतानि पदानि प्रयुज्य अधोलिखितानि वाक्यानि प्रश्नार्थस्वरूपे परिवर्तयत –

(1) देवाय नमः । (कस्मै)
(2) साङ्ग-पद-क्रमोपनिषदैः वेदैः सामगाः गायन्ति । (के)
(3) योगिनः देवं पश्यन्ति । (कम् )
उत्तरम् –
(1) कस्मै नमः ?
(2) साङ्ग-पद-क्रमोपनिषदैः वेदैः के गायन्ति ?
(3) योगिनः कं पश्यन्ति ?

प्र. 4. श्लोकपूर्ति कुरुत – 

(1) अग्निमीळे …….. रत्नधातमम् ।।
उत्तरम् – अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ।
होतारं रत्नधातमम् ॥
(2) नमः शम्भवाय …….. शिवतराय च ।।
उत्तरम् – नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ।।
(3) वयं त्वां स्मरामो ……..व्रजामः ॥
उत्तरम् – वयं त्वां स्मरामो वयं त्वां भजामो
वयं त्वां जगत्साक्षिरूपं नमामः ।
सदेकं निधानं निरालम्बमीशम्
भवाम्भोधिपोतं शरण्यं व्रजाम: ।।

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत-
( 1 ) अग्निः – अनलः / अनिलः
( 2 ) पुरोहित: – पुरोडाशः / पुरोधाः
( 3 ) यज्ञ: अध्वरः / भद्रम्
( 4 ) देवः – असुर : / सुरः
( 5 ) अनृतम् असत्यम् / ऋतम्
( 6 ) शम्भवः – मयोभवः / पावनम्
( 7 ) ब्रह्मा – नारायणः / जगत्स्रष्टा
( 8 ) स्तवः – स्तोत्रम् / गानम्
( 9 ) भीषणम् – भयानकम् / परमम्
(10) निधानम् – सन्धानम् / निधिः
(11) पोत : – नौका / यानम्
उत्तरम् –
( 1 ) अग्निः – अनलः –
( 2 ) पुरोहित: – पुरोधाः
( 3 ) यज्ञः – अध्वरः
( 4 ) देवः – सुरः
( 5 ) अनृतम् – असत्यम्
( 6 ) शम्भवः – मयोभवः
( 7 ) ब्रह्मा जगत्स्रष्टा
( 8 ) स्तवः – स्तोत्रम्
( 9 ) भीषणम् – भयानकम्
(10) निधानम् – निधिः
(11) पोत : – नौका
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) देव : – दैन्यम् / दानवः
( 2 ) शिवः – अशिवः / शुभम्
( 3 ) ध्यानम् – जाग्रत: / अध्यानम्
( 4 ) अन्तः – आदि: / मध्यः
( 5 ) पावनम् पावकः / अशुचिः
( 6 ) सुर:- पोतम् / असुर :
उत्तरम् –
( 1 ) देव: × दानवः
( 2 ) शिवः × अशिवः
( 3 ) ध्यानम् × अध्यानम्
( 4 ) अन्तः × आदि
( 5 ) पावनम् × अशुचि:
( 6 ) सुरः × असुरः
प्र. 3. अधोदत्तेभ्यः शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत –
( 1 ) पुरोहितः / निधानम् / भीषणम्
( 2 ) गतिः / यज्ञः / शिवा
( 3 ) साक्षिः / मयस्करः / दिव्यम्
( 4 ) मानसम् / वेद: / शरण्या
( 5 ) निरालम्ब: / अनृतम् / वाणी
( 6 ) ब्रह्मा / एकम् / ईशम्
( 7 ) पावनम् / अम्भोधिः / भवानी
उत्तरम् –
( 1 ) पुरोहित:
( 2 ) यज्ञ :
( 3 ) मयस्कर :
( 4 ) वेदः
( 5 ) निरालम्ब:
( 6 ) ब्रह्मा
( 7 ) अम्भोधिः
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत –
( 1 ) गतिः / देवः / मयम्
( 2 ) रक्षकम् / वरुणः / साक्षिणी
उत्तरम् –
( 1 ) गति:
( 2 ) साक्षिणी
प्र. 5. अधोदत्तेभ्यः शब्दरूपेभ्यः नपुंसकलिङ्गशब्दं चित्वा लिखत –
( 1 ) व्रतम् / शङ्करः / शिवा
( 2 ) पोतम् / सत्यम् / देवी
( 3 ) रुद्रः / दिव्यम् / प्राणी :
( 4 ) गति: / मनसा / भीषणम्
( 5 ) निधानम् / आद्या / शरण्या
उत्तरम् –
( 1 ) व्रतम्
( 2 ) सत्यम्
( 3 ) दिव्यम्
( 4 ) भीषणम्
( 5 ) निधानम्
प्र. 6. सूचनानुसारं रुपाणि चित्वा लिखत- 
(1) अधोदत्तेभ्यः रूपेभ्यः द्वितीया एकवचनं चित्वा लिखत- 
( 1 ) पुरोहितम् / पुरोहितः / पुरोहितस्य
( 2 ) त्वम् / त्वया / त्वाम्
उत्तरम् –  ( 1 ) पुरोहितम्  ( 2 ) त्वाम्
(2) अधोदत्तेभ्यः रूपेभ्यः षष्ठी एकवचनं चित्वा लिखत –
यज्ञाय / यज्ञे / यज्ञस्य
उत्तरम् – यज्ञस्य
(3) अधोदत्तेभ्यः रूपेभ्यः प्रथमा एकवचनं चित्वा लिखत –
अहम् / आवाम् / वयम्
उत्तरम् – अहम्
(4) अधोदत्तेभ्यः रूपेभ्यः चतुर्थी एकवचनं चित्वा लिखत –
( 1 ) शिवाय / शिवात् / शिवे
( 2 ) त्वम् / तेन / तस्मै
उत्तरम् – ( 1 ) शिवाय  ( 2 ) तस्मै
(5) अधोदत्तेभ्यः रूपेभ्यः तृतीया बहुवचनं चित्वा लिखत – 
वेदेन/ वेदाभ्याम् / वेदैः
उत्तरम् – वेदै:
(6) अधोदत्तेभ्यः रूपेभ्यः षष्ठी बहुवचनं चित्वा लिखत-
प्राणिनाम् / प्राणिनः / प्राणिना
उत्तरम् – प्राणिनाम्
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *