अधोलिखित गद्यांशों को पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार दें –
प्रश्न- अधोलिखित गद्यांशों को पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार दें –
(अ) पुरा धारा नगरे प्रजावत्सलो सिन्धुलो नाम राजा आसीत्। तस्य वृद्धावस्थायां भोज इति पुत्रः जातः । यदा स पञ्चवर्षीयः तदा पिता जरावस्थां ज्ञात्वा मुख्यामात्यम् आहूय अनुजं मुञ्जं महाबलम् अवलोक्य पुत्रं च बालं वीक्ष्य विचारितवान् यदि अहं राज-लक्ष्मीभारधारणसमर्थं सोदरं असहाय राज्यं पुत्राय प्रयच्छामि तदा लोकापवादः भविष्यति । अथवा बालं में पुत्रं द्वेषादिना मुञ्जः मारिष्यति तदा दत्तमपि राज्यं वृथा। इति विचार्य राज्यं मुञ्जाय दत्तवान्। तस्याङ्के आत्मभोजं च रक्षायै समर्पितवान् ।
एकपदेन उत्तरत –
(क) धारानगरे कः राजा आसीत् ?
(ख) राजा राज्यं कस्मै दत्तवान् ?
पूर्णवाक्येन उत्तरत –
(क) स्वीकीयां जरावस्थां ज्ञात्वा राजा किं कृतवान्?
(ख) राजा किं विचारितवान् ?
अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत।
(ब) क्रोधः मनुष्यस्य महान् शत्रुः । क्रुद्धः जनः गुरुन् अपि निन्दति, अपभाषणं करोति, ज्येष्ठानां हितवचनानि अपि च न शृणोति। तस्माद् वयं क्रोधात् सावधानाः भवेम। यदि क्रोधः आगच्छति तदा तस्मिन्नेव क्षणे मौनं धारणीयम्। मौनेन मनः शांतं भवति । वाणी अपि नियंत्रिता भवति। ईदृशे काले किञ्चित् पुस्तकं गृहीत्वा पठेम । कोपात् सर्वदा आत्मानं रक्षेम ।
एकपदेन उत्तरत –
(क) मनुष्यस्य महान् शत्रु कः
(ख) क्रोधे आगते किं धारणीयम् ?
पूर्णवाक्येन उत्तरत –
(क) क्रुद्धः जनः किं करोति ?
(ख) मौनेन किं भवति?
खसंस्कृते पत्रलेखनम् (08 अङ्काः)
उत्तर –
(अ) एकपदेन उत्तरत –
(क) सिन्धुल:
(ख) मुञ्जाय
पूर्णवाक्येन उत्तरत- (क) स्वीकीयां जरावस्थां ज्ञात्वां राजा मुख्यामात्यम् आह्वायत्। (ख) राजा विचारितवान् यदि अहं राज- लक्ष्मीभारधारणो समर्थे सोदारं असहाय राज्यं पुत्राय प्रयच्छामि तथा लोकापवादः भविष्यति । अथवा बालं मे पुत्रं द्वेषादिना मुञ्जः मारिष्यति तदा दत्तमपि राज्यं वृथा भविष्यति । शीर्षक: राजा सिधुल —
(ब) एकपदेन उत्तरत- (क) क्रोध: (ख) मौनं
पूर्णवाक्येन उत्तरत- (क) क्रुद्धः जनः गुरुन् अपि निन्दति, अपभाषणं करोति, ज्येष्ठानां हितवचनानि अपि च न शृणोति । (ख) मौनेन मनः शान्तं भवति ।
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here