Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 18 बिलस्य वाणी न कदापि मे श्रुता ।

Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 18 बिलस्य वाणी न कदापि मे श्रुता ।

સ્વાધ્યાય

प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-
( 1 ) कीदृशः सिंहः वने इतः ततः परिभ्रमणम् अकरोत् ?
A. तृषार्त :
B. क्षुधार्त :
C. भयार्त :
D. निगूढ:
उत्तरम् – B. क्षुधार्त :
( 2 ) शृगालस्य नाम किम् आसीत् ?
A. खरनखर:
B. मदोन्मत्तः
C. दीर्घपुच्छ:
D. दधिपुच्छः
उत्तरम् – D. दधिपुच्छः
( 3 ) शृगालस्य गुहायां कः प्रविष्टः ?
A. शृगालः
B. सिंह:
C. गज:
D. शशक :
उत्तरम् – B. सिंह:
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
( 1 ) सूर्यास्तसमये सिंहः किम् अपश्यत् ?
उत्तरम् – सूर्यास्तसमये सिंहः एकां महतीं गुहाम् अपश्यत् ।
( 2 ) शृगालः कस्य पदपद्धतिम् अपश्यत् ?
उत्तरम् – शृगालः सिंहस्य पदपद्धतिम् अपश्यत् ।
( 3 ) शृगालस्य वचनं श्रुत्वा सिंहः किम् अकरोत् ?
उत्तरम् – शृगालस्य वचनं श्रुत्वा सिंहः सहसा शृगालम् आह्वयत् ।
( 4 ) ‘बिलस्य वाणी न कदापि मे श्रुता ।’ – वाक्यं कः वदति ?
उत्तरम् – ‘बिलस्य वाणी न कदापि मे श्रुता । ‘ – वाक्यं शृगालः वदति ।
प्र. 3. अधोदत्तानि वाक्यानि घटनाक्रमानुसारं पुनः लिखत-
( 1 ) शृगालः अपि ततः दूरं पलायमानः इमम् अपठत् ।
( 2 ) क्षुधार्तः सिंहः किञ्चिदपि आहारं न अलभत ।
( 3 ) इत्थं विचार्य सिंहः सहसा शृगालस्य आह्वानम् अकरोत् ।
( 4 ) भो बिल ! भो बिल ! किं न स्मरसि ?
( 5 ) अतः अत्रैव निगूढो भूत्वा तिष्ठामि ।
( 6 ) यदि त्वं मां न आह्वयसि तर्हि अहं द्वितीयं बिलं यास्यामि ।
उत्तरम् –
( 1 ) क्षुधार्तः सिंहः किञ्चिदपि आहारं न अलभत ।
( 2 ) अतः अत्रैव निगूढो भूत्वा तिष्ठामि ।
( 3 ) भो बिल ! भो बिल ! किं न स्मरसि ?
( 4 ) यदि त्वं मां न आह्वयसि तर्हि अहं द्वितीयं बिलं यास्यामि ।
( 5 ) इत्थं विचार्य सिंहः सहसा शृगालस्य आह्वानम् अकरोत् ।
( 6 ) शृगालः अपि ततः दूरं पलायमान: इमम् अपठत् ।

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
( 1 ) शृगालः बिलेन सह किं कृतः अस्ति ?
उत्तरम् – शृगालः बिलेन सह समयः कृतः अस्ति ।
( 2 ) ‘अहो विनष्टोऽस्मि । तत् किं करवाणि ?’ इति वाक्यं कः वदति ?
उत्तरम् – ‘अहो विनष्टोऽस्मि । तत् किं करवाणि?’ इति वाक्यं शृगालः वदति।
( 3 ) खरनखरः कः आसीत् ?
उत्तरम् – खरनखरः नाम सिंहः आसीत् ।
( 4 ) दूरस्थः शृगालः किं कर्तुम् आरभत ?
उत्तरम् – दूरस्थः शृगालः रवं कर्तुम् आरभत ।
( 5 ) ‘पञ्चतन्त्रम्’ कथाग्रन्थस्य रचयिता कः अस्ति ?
उत्तरम् – ‘पञ्चतन्त्रम्’ कथाग्रन्थस्य रचयिता विष्णुशर्मा अस्ति ।
( 6 ) शृगालेन सिंहस्य पदपद्धतिः कुत्र आगता न दृष्टा ?
उत्तरम् – शृगालेन सिंहस्य पदपद्धतिः बहिः आगता न दृष्टा ।
( 7 ) वने वसतः शृगालेन का समागता ?
उत्तरम् – वने वसतः शृगालेन जरा समागता ।
( 8 ) गुहायाः स्वामी कः आसीत् ?
उत्तरम् – गुहायाः स्वामी दधिपुच्छः नाम शृगालः आसीत् ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत –
( 1 ) कस्मिंश्चित् …….. खरनखरः सिंहः अवसत् । (वनेन, वनाय, वने)
( 2 ) सः किञ्चिदपि आहारं न ……… । (अलभे, अलभत, अलभन्त)
( 3 ) एकां महतीं गुहां …….. सः अचिन्तयत्। (दृष्टम्, दृष्ट्वा, दृश्यम्)
( 4 ) सः बिले प्रविश्य में भोज्यं …….. । (भवति, भवन्तु, भविष्यति )
( 5 ) ……. बिलस्य वाणी कदापि न श्रुता । ( माम्, मया, मह्यम्)
उत्तरम् –
( 1 ) वने
( 2 ) अलभत
( 3 ) दृष्ट्वा
( 4 ) भविष्यति
( 5 ) मया

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत-
( 1 ) गुहा – कन्दरः, बिलम् / समयः
( 2 ) सूर्यास्त :- प्रातकालः / प्रदोषः
( 3 ) नूनम् – खलु / इत्थम्
( 4 ) रात्रिः – निशा, रजनी / शय्या
( 5 ) क्षुधार्त :- परिभ्रमन् / क्षुधातुरः
उत्तरम् –
( 1 ) गुहा – कन्दरः, बिलम्
( 2 ) सूर्यास्त :- प्रदोषः
( 3 ) नूनम् – खलु
( 4 ) रात्रि : – निशा, रजनी
( 5 ) क्षुधार्त :- क्षुधातुरः
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) सूर्यास्त: – सूर्यारम्भः / सूर्योदयः
( 2 ) रात्रौ – दिवा / निशायाम्
( 3 ) निगूढ: – प्रच्छन्नः/ सम्मुखः
( 4 ) जरा – वार्द्धक्यम् / शैशवम्
( 5 ) प्रविष्टम् – निर्गतम् / स्थितम्
उत्तरम् –
( 1 ) सूर्यास्त: × सूर्योदय :
( 2 ) रात्रौ × दिवा
( 3 ) निगूढः × सम्मुखः
( 4 ) जरा × शैशवम्
(5) प्रविष्टम् × निर्गतम्
प्र. 3. अधोदत्तेभ्यः शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत-
( 1 ) क्षुधार्ता / क्षुधार्त : / बिलम्
( 2 ) जीव: / गुहा / भयम्
( 3 ) अनागतम् / प्रतिध्वनिः / शृगालः
( 4 ) एतस्याम् / खरनखर: / जरा
( 5 ) अस्मिन् / रवः / भोज्यम्
( 6 ) स्वामी / वनम् / सिंहपदपद्धतिः
( 7 ) पशुः / द्वितीयं / कृता
( 8 ) समय: / वाणी / दूरस्थम्
उत्तरम् –
( 1 ) क्षुधार्त :
( 2 ) जीव:
( 3 ) शृगालः
( 4 ) खरनखरः
( 5 ) रवः
( 6 ) स्वामी
( 7 ) पशु:
( 8 ) समय :
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत-
( 1 ) गुहा / निगूढः / बिलम्
( 2 ) भयम् / सिंहः / सिंहपदपद्धतिः
( 3 ) रवः / जरा / आहारम्
( 4 ) प्रतिध्वनिः / भयभीतः/ आह्वानम्
( 5 ) दधिपुच्छः / महती / भयम्
उत्तरम् –
( 1 ) गुहा
( 2 ) सिंहपदपद्धति :
( 3 ) जरा
( 4 ) प्रतिध्वनिः
( 5 ) महती
प्र. 5. अधोदत्तेभ्यः शब्दरूपेभ्यः नपुंसकलिङ्गशब्दौ चित्वा लिखत –
( 1 ) निगूढ: / बिलम् / एका
( 2 ) भयम् / जरा / समय:
( 3 ) जीव: / वाणी / कृतम्
( 4 ) प्रविष्टा / अनागतम् / परिभ्रमन्
उत्तरम् –
( 1 ) बिलम्
( 2 ) भयम्
( 3 ) कृतम्
( 4 ) अनागतम्
प्र. 6. सन्धिं योजयत –
( 1 ) कः + अपि
( 2 ) अत्र + एव
( 3 ) विनष्टः + अस्मि
( 4 ) एतत् + श्रुत्वा
( 5 ) शृगालः + अपि
उत्तरम् –
( 1 ) कः + अपि = कोऽपि
( 2 ) अत्र + एव = अत्रैव
( 3 ) विनष्टः + अस्मि = विनष्टोऽस्मि
( 4 ) एतत् + श्रुत्वा = एतच्छ्रुत्वा
( 5 ) शृगालः + अपि = शृगालोऽपि
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *