Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 2 कुलस्य आचारः

Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 2 कुलस्य आचारः

સ્વાધ્યાય

प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितं पदं चित्वा उत्तरं लिखत-

(1) तृषापीडितः शिशुः कस्य समीपं गच्छति ?
A. जनन्या :
B. नीडस्य
C. जलस्य
D. गगनस्य
उत्तरम् – A. जनन्या :
(2) ‘मेघः’ इति शब्दस्य पर्यायः कः ?
A. जलम्
B. वृष्टि :
C. जलद :
D. गगनम्
उत्तरम् – C. जलद :
(3) सर्वैः किं रक्षितव्यम् ?
A. तडाग:
B. कुलाचार :
C. मेघ:
D. शिशुः
उत्तरम् – B. कुलाचार :
(4) वृद्धः कीदृशः आसीत् ?
A. अन्धः
B. विकल :
C. मरणासन्नः
D. स्वस्थः
उत्तरम् – C. मरणासन्नः
(5) शिशुः कस्य प्रतीक्षां करोति ?
A. मेघस्य
B. मेघाय
C. मेघम्
D. मेघेन
उत्तरम् – A. मेघस्य

प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –

(1) कः तृषया पीडितः आसीत् ?
उत्तरम् – एकः चातकशिशुः तृषया पीडितः आसीत्।
(2) चातकशिशुः किं पातुं न अर्हति ?
उत्तरम् – चातकशिशुः तडागजलं पातुं न अर्हति ।
(3) कृषकपुत्रस्य दारिद्रयं केन नष्टं भविष्यति ?
उत्तरम् – कृषकपुत्रस्य दारिद्रयं मार्गे प्राप्तेन धनस्यूतेन नष्टं भविष्यति ।
(4) कृषकपुत्रेण मार्गे किं प्राप्तम् ?
उत्तरम् – कृषकपुत्रेण मार्गे धनस्यूतः प्राप्तः ।
(5) शिशोः तृषा केन नष्टा ?
उत्तरम् – शिशोः तृषा मेघजलस्य पानेन नष्टा ।
प्र. 3. निर्देशानुसारं धातुरूपाणां परिचयं कारयत-

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-

(1) कीदृशः चातकशिशुः कस्याः समीपं गच्छति ?
उत्तरम् – तृषया पीडितः चातकशिशुः स्वजनन्याः समीपं गच्छति ।
(2) माता स्वशिशुं किं बोधयति ?
उत्तरम् – माता स्वशिशुं तृषायाः सहनं कृत्वा मेघस्य प्रतीक्षां कर्तुं बोधयति ।
(3) मार्गे श्रान्तः चातकशिशुः कुत्र तिष्ठति ?
उत्तरम् – मार्गे श्रान्तः चातकशिशुः एकस्य कृषकस्य गृहस्य समीपे तिष्ठति ।
(4) कृषकः कीदृशः आसीत् ?
उत्तरम् – कृषकः वृद्धः मरणासन्नः च आसीत् ।
(5) सदाशयाः पशवः पक्षिणः च मानवाः किं कुर्वन्ति ?
उत्तरम् – सदाशयाः पशवः पक्षिणः च मानवाः स्वकुलाचारं रक्षन्ति ।
(6) ‘वयं तु मेघजलम् एव पिबामः ।’ इति कः वदति ?
उत्तरम् –‘वयं तु मेघजलम् एव पिबामः । ‘ – इति चातकशिशोः जननी वदति ।
(7) चातकानां कः कुलाचारः ?
उत्तरम् – चातकाः मेघजलम् एव पिबन्ति । एषः तेषाम् कुलाचारः।
(8) तृषया पीडितः चातकशिशुः किं पातुम् इच्छति ?
उत्तरम् – तृषया पीडितः चातकशिशुः तडागजलं पातुम् इच्छति।
(9) जनन्याः कथनं श्रुत्वा चातकशिशुः किं करोति ?
उत्तरम् – जनन्याः कथनं श्रुत्वा अपि चातकशिशुः तडागजलं पातुं गच्छति ।
(10) सन्तुष्टा चातकमाता शिशवे किं ददाति ?
उत्तरम् – सन्तुष्टा चातकमाता शिशवे आशीर्वाद ददाति । –

प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत –

(1) अहं तडागजलं पातुम् ……… । (इच्छामि, इच्छावः, इच्छामः)
(2) सम्प्रति …….. न मिलति। (तडागजलं, मेघजलं, समुद्रजलम्)
(3) एषः अस्माकं ……… आचारः । (कुलम्, कुलेन, कुलस्य)
(4) मेघ: ………. । (वर्षिष्यति, वर्षिष्यतः, वर्षिष्यन्ति)
(5) ……… सदैव रक्षितव्यः । (कुलदीपक:, कुलाचारः, कुलप्रसङ्गः)
(6) पुत्रः तस्मै …….. कथयति। (कृषकाय, कृषकेन, कृषकस्य)
(7) अहं तं धनस्यूतं तत्रैव ………. । (अत्यजत्, अत्यजः, अत्यजम्)
(8) अल्पे एव काले मेघवृष्टिः ………। (भवति, भवतः, भवन्ति)
(9) …….. पुत्रः अपि कुलाचारं रक्षति । (वृद्धः, वृद्धम्, वृद्धस्य)
(10) चातकशिशुः तडागजलं पातुं ……….. | (गच्छति, गच्छसि, गच्छामि)
उत्तरम् –
(1) इच्छामि
(2) मेघजलं
(3) कुलस्य
(4) वर्षिष्यति
(5) कुलाचार :
(6) कृषकाय
(7) अत्यजम्
(8) भवति
(9) वृद्धस्य
(10) गच्छति

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
(1) आचार: – वृत्तम् / अक्षतः
(2) जननी – जीविका / अम्बा
(3) कृषकः – कृषिवलः / कमठः
(4) तृषा – गीतिका / पिपासा
(5) तडागः – सरः, हृदः / स्तेन:
(6) वृष्टि: – पर्जन्यः, वर्षा / विरामः
(7) श्रुत्वा स्वीकृत्य / आकर्ण्य
उत्तरम् –
(1) आचार : – वृत्तम्
(2) जननी – अम्बा
(3) कृषकः – कृषिवल :
(4) तृषा – पिपासा
(5 ) तडागः – सरः, हूदः
(6) वृष्टि: – पर्जन्य:, वर्षा :
(7) श्रुत्वा – आकर्ण्य
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
(1) आचार: – अनुचितम् / अनाचार:
(2) वृष्टिः – अनावृष्टिः, दुर्भिक्षः/ सुकालः
(3) सम्प्रति – अधुना / तदानीम्
(4) महती – लघ्वी / गुर्वी
(5) श्रुत्वा – अश्रुत्वा / आकर्ण्य
उत्तरम् –
(1) आचार: × अनाचार :
(2) वृष्टिः × अनावृष्टिः, दुर्भिक्षः
(3) सम्प्रति × तदानीम्
(4) महती × लघ्वी
(5) श्रुत्वा × अश्रुत्वा
प्र. 3. अधोदत्तेभ्यः शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत-
(1) स्यूत: / तस्यै / जननी
(2) महती / कृषकः / कुलम्
(3) वृष्टिः / पुत्रः / धनम्
(4) पशुः / श्रद्धा / सन्तोषम्
(5) तृषा / आचार: / अम्ब
(6) प्रतीक्षा / मदीयं / बालः
(7) चातक: / माता / ग्रहणम्
उत्तरम् –
(1) स्यूतः
(2) कृषकः
(3) पुत्र:
(4) पशुः
(5) आचार :
(6) बाल:
(7) चातक:
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत-
(1) तृषा / शिशुः / जलम्
(2) कुलम् / पीडितः / अम्बा
(3) आनन्द: / जननी / वृद्धः
(4) महती / उपदेशः / मार्गम्
(5) स्मृतः / श्रद्धा / वृत्तान्तम्
(6) वृष्टिः / सम्प्रति / भवादृशाः
उत्तरम् –
(1) तृषा
(2) अम्बा
(3) जननी
(4) महती
(5) श्रद्धा
(6) वृष्टि:
प्र. 5. अधोदत्तेभ्यः शब्दरूपेभ्यः नपुंसकलिङ्गशब्दं चित्वा लिखत-
(1) जलम् / मेघः / कृषकः
(2) शिशुः / अधुना / कथनम्
(3) कुलाचार: / ग्रहणम् / तात:
(4) सर्वम् / पुत्रः / श्रद्धा
(5) स्यूतः / वृत्तान्तम् / तृषा
उत्तरम् –
(1) जलम्
(2) कथनम्
(3) ग्रहणम्
(4) सर्वम्
(5) वृत्तान्तम्
प्र. 6. सन्धिविच्छेदं कुरुत –
( 1 ) पीडितोऽहं
( 2 ) पक्षिणश्चैव
( 3 ) अनुचितमस्ति
( 4 ) तत्रैव
( 5 ) मानवाश्च
उत्तरम् –
( 1 ) पीडितोऽहं = पीडितः + अहम्
( 2 ) पक्षिणश्चैव = पक्षिणः + च + एव
( 3 ) अनुचितमस्ति = अनुचितम् + अस्ति
( 4 ) तत्रैव = तत्र + एव
( 5 ) मानवाश्च = मानवाः + च
प्र. 7. अधोदत्तेभ्यः रूपेभ्यः वर्तमानकालस्य रूपं चिनुत – 
( 1 ) व्रजति / व्रजिष्यति / अव्रजत्
( 2 ) पिबतु / पिबामः / पिबेत्
( 3 ) रक्षन्तु / रक्षन्ति / रक्षिष्यति
( 4 ) भवतु / अभवत् / भवति
उत्तरम् –
( 1 ) व्रजति
( 2 ) पिबाम:
( 3 ) रक्षन्ति
( 4 ) भवति
प्र. 8. अधोदत्तेभ्यः रूपेभ्यः ह्यस्तनभूतकालस्य रूपं चिनुत – 
( 1 ) त्यजति / त्यजतु / अत्यजम्
( 2 ) अस्तु / आसीत् / सन्ति
उत्तरम् –
( 1 ) अत्यजम्
( 2 ) आसीत्
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *