Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 21 अपठित गद्य
Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 21 अपठित गद्य
प्र. अधोदत्तं गद्यखण्डं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत- (अपठित)
(1) अथ कदाचित् द्रविडदेशात् कोऽपि लक्ष्मीधरनामा विद्वान् भोजसभां प्राप्तः । सूर्यमिव शोभमानं तं दृष्ट्वा नृपसभा परिभूता इव । राजा सबहुमानं तम् आगमनस्य कारणमपृच्छत् । स सविनयं प्रत्यवदत् – “देव, अहमत्र कुटुम्बेन सह निवासाय समागतः । विद्याप्रियः कलानुरागी भवान् मां निराशं न करिष्यति इति मन्ये । “
प्रश्ना: –
( 1 ) लक्ष्मीधरः कः आसीत् ?
( 2 ) लक्ष्मीधरः कस्मात् देशात् आगतः ?
( 3 ) भोजराजस्य सभा केन परिभूता इव ?
( 4 ) लक्ष्मीधरः भोजराजं सविनयं किं प्रत्यवदत् ?
उत्तराणि –
( 1 ) लक्ष्मीधरः द्रविडदेशीयः कश्चित् विद्वान् आसीत् ।
( 2 ) लक्ष्मीधरः द्रविडदेशात् आगतः।
( 3 ) सूर्यमिव शोभमानं लक्ष्मीधरनाम विद्वांसं दृष्ट्वा भोजराजस्य सभा परिभूता इव ।
( 4 ) लक्ष्मीधरः भोजराजं सविनयं प्रत्यवदत् ‘देवअहमत्र कुटुम्बेन सह निवासाय समागतः । “
( 2 ) श्वापल्ली नामैकः ग्रामः आसीत् । तत्र बहवः कुक्कुरा वसन्ति स्म । तेषां तीक्ष्णदन्तः नाम वृद्धः सारमेयः अग्रेसरः । एकदा गङ्गास्नानाय तस्येच्छा सञ्जाता। ततः सारमेयाणां सभायां सः अघोषयत् – ” हे शुनका:, भागीरथ्याः दर्शनं पवित्रम् । भागीरथ्यां कृतं स्नानं पापहरम्। तस्मात् गङ्गास्नानेन पुण्यप्राप्तये काशीमहं गच्छामि । “
प्रश्ना: –
( 1 ) श्वापल्लायां के वसन्ति स्म ?
( 2 ) तीक्ष्णदन्तः कः आसीत् ?
( 3 ) एकदा तीक्ष्णदन्तस्य का इच्छा सञ्जाता ?
( 4 ) तीक्ष्णदन्तः गङ्गास्नानेन किं प्राप्तुम् ऐच्छत् ?
उत्तराणि –
( 1 ) श्वापल्लायां बहवः कुक्कुराः वसन्ति स्म ।
( 2 ) तीक्ष्णदन्तः कुक्कुराणाम् अग्रेसरः आसीत् ।
( 3 ) एकदा तीक्ष्णदन्तस्य गङ्गास्नानाय इच्छा सञ्जाता।
( 4 ) तीक्ष्णदन्तः गङ्गास्नानेन पुण्यं प्राप्तुम् ऐच्छत् ।
( 3 ) अस्ति कालिन्दीतटे ब्रह्मस्थलाभिधः कश्चिद् ग्रामः । तत्र अग्निस्वामी नाम कश्चिद् विप्रः अवसत् । तस्य मन्दारवती नाम अतीव लावण्यवती कन्या आसीत् । दिनेषु गच्छत्सु सा विवाहयोग्या सञ्जाता। त्रयः ब्राह्मणकुमाराः तस्याः पाणिग्रहणार्थं तत्र आगताः ।
प्रश्नाः –
( 1 ) ब्रह्मस्थलं नाम ग्राम कुत्र अस्ति ?
( 2 ) अग्निस्वामी नाम ब्राह्मणः कस्मिन् ग्रामे अवसत् ?
( 3 ) मन्दारवत्याः पाणिग्रहणार्थं के आगताः ?
( 4 ) अग्निस्वामिनः पुत्री मन्दारवती कीदृशी आसीत् ?
उत्तराणि –
( 1 ) ब्रहास्थल नाम ग्राम कालिन्दीतटे (कालिन्दया: तटे) अस्ति ।
( 2 ) अग्निस्वामी नाम ब्राह्मण: ब्रह्मस्थलग्रामे अवसत् ।
( 3 ) मन्दारवत्याः पाणिग्रहणार्थं त्रयः ब्राह्मणकुमाराः आगताः ।
( 4 ) अग्निस्वामिनः पुत्री मन्दारवती अतीव लावण्यवती आसीत्।
( 4 ) एकदा एकलव्य : द्रोणाचार्यस्य समीपम् अगच्छत, अवदत च | ‘गुरुदेव अहम् अपि धनुर्धरः भवितुम् इच्छामि। कृपया मां स्वीकुरु ।’ आचार्यः प्रत्यवदत् .” अहं कौरवान् पाण्डवान् च पाठयामि। अहं भवतः शिष्यरूपेण स्वीकारं कर्तुं न शक्नोमि ।” परंतु आचार्य प्रति तस्य श्रद्धा शिथिला न अभवत् । सः आचार्यस्य द्रोणस्य एकां मूर्तिम् अरचयत् । सः प्रतिदिनं मूर्तिम् अनमत् । प्रातः सायंकालम् च धनुर्विद्यायाः अभ्यासम् अकरोत् । शनैः शनैः सः कुशलः धनुर्धरः अभवत् ।
प्रश्नाः –
( 1 ) एकलव्यः धनुर्विद्यां पठितुं कस्य समीपम् अगच्छत् ?
( 2 ) एकलव्य : द्रोणाचार्य किम् अवदत् ?
( 3 ) द्रोणाचार्यः एकलव्यं किम अवदत् ?
( 4 ) एकलव्य : शनै: शनैः किम् अभवत्?
उत्तराणि –
( 1 ) एकलव्य धनुर्विद्यां पठितुं द्रोणाचार्यस्य समीपम् अगच्छत् ।
( 2 ) एकलव्य : द्रौणाचार्यम् अवदत् यत् – “गुरुदेव अहम् अपि धनुर्धरः भवितुम् इच्छामि । कृपया मां स्वीकुरु । “
( 3 ) द्रोणाचार्यः एकलव्यम् अवदत् “अहं कौरवान् पाण्डवान् च पाठ्यामि । अहं भवतः शिष्यरूपेण स्वीकारं कर्तुं न शक्नोमि ।”
( 4 ) एकलव्यः शनै: शनैः कुशलः धनुर्धरः अभवत् ।
( 5 ) पुरा भारतवर्षे कपिलवस्तुनाम्नि नगरे शुद्धोदनो नाम नरपति: आसीत् । मायादेवी तस्य भार्या आसीत् । तयोः एव आत्मजस्य सिद्धार्थ इति अभिधानमासीत्। असौ राजपुत्रः गुणवान् रूपवान् बलवान् आसीत् । तस्य जन्मनः सप्तमे दिने तस्य माता दिवं गता । ततः प्रभृति शुद्धोदनः सिद्धार्थं महता स्नेहेन अपोषयत् । बाल्यकाले शीघ्रमेव स सर्वासु विद्यासु कलासु च कुशलोऽभवत् ।
प्रश्ना:-
( 1 ) कपिलवस्तुनाम्नि नगरे कः नरपतिः आसीत् ? का तस्य भार्या ?
( 2 ) नृपस्य आत्मजस्य किम् अभिधानम् आसीत् ?
( 3 ) राजपुत्रः कीदृशः आसीत् ?
( 4 ) बाल्यकाले राजपुत्रः कासु कुशलोऽभवत् ?
उत्तराणि –
( 1 ) कपिलवस्तुनाम्नि नगरे शुद्धोदनो नाम नरपतिः आसीत् । मायादेवी तस्य भार्या ।
( 2 ) नृपस्य आत्मजस्य सिद्धार्थ इति अभिधानम् आसीत् ।
( 3 ) राजपुत्रः गुणवान्, रूपवान्, बलवान् च आसीत् ।
( 4 ) बाल्यकाले राजपुत्रः सर्वासु विद्यासु कलासु च कुशलोऽभवत् ।
( 6 ) मयूरोऽतीव सुन्दरो विहगः । तस्य पुच्छं मनोहरम्। वर्षासु यदा घनानां गर्जनं श्रूयते तदा मयूरः हर्षेण नृत्यति । वृक्षस्य शाखायां स्थितः स मधुराभिः केकाभिरस्मानाह्लादयति । तस्य रमणीयं रूपं दृष्ट्वा मनोहराश्च केकाः श्रुत्वा बालाः मोदन्ते । मयूरस्य स्वरो मधुरः काकस्य तु परुषः । मयूरः सरस्वत्याः वाहनमिति जनाः वदन्ति ।
प्रश्ना: –
( 1 ) मयूरः कीदृशः विहग : ?
( 2 ) मयूरस्य पुच्छं कीदृशम् ?
( 3 ) कदा मयूरः हर्षेण नृत्यति ?
( 4 ) कस्य विहगस्य स्वर : परुष: ?
उत्तराणि –
( 1 ) मयूरः अतीव सुन्दरो विहगः ।
( 2 ) मयूरस्यं पुच्छं मनोहरम् ।
( 3 ) वर्षासु यदा घनानां गर्जनं श्रूयते तदा मयूरः हर्षेण नृत्यति ।
( 4 ) काकस्य स्वरः परुषः ।
( 7 ) ततः कुविन्दो राजभवनमासाद्य भूपालं प्रणम्य प्राह – “देव, भवदमात्यो मां मूर्ख मत्वा अकविं प्रस्थाप्य च मम गृहान्निःसारयति । दयस्व प्रभो।” तं श्रुत्वा भोजोऽभाषत – ” त्वं काव्यरचनायामनभिज्ञः । अतस्त्वमन्यत्र प्रतिष्ठस्व । अयं पण्डितस्तव गृहे निवत्स्यति । इदं श्रुत्वा तन्तुवायोऽवदत् – ‘’राजन् राजनियमस्तु पालनीयः। तन्तुवायोऽहं सततं परिश्रम्य जीविकामर्जयामि । काव्यरचनायां न मे चातुर्यम् । भवान् पश्यतु अहं मूर्खः पण्डितो वेति’।
प्रश्ना:-
( 1 ) कुविन्दः भोजं प्रणम्य किं वदति ?
( 2 ) भोजस्य अमात्यः कुविन्दम् किं मन्यते ?
( 3 ) कुविन्दः कथं जीविकाम् अर्जयति ?
( 4 ) भोजस्य मतेन कुविन्दः कस्मिन् विषये अनभिज्ञः अस्ति ?
उत्तराणि –
( 1 ) कुविन्दः भोजं प्रणम्य वदति – “देव, भवदमात्यो मां मूर्ख मत्वा अकविं प्रस्थाप्य च मम गृहान्निःसारयति । दयस्व प्रभो । “
( 2 ) भोजस्य अमात्यः कुविन्दं मूर्खम् अकविं च मन्यते ।
( 3 ) कुविन्दः सततं परिश्रम्य जीविकाम् अर्जयति ।
( 4 ) भोजस्य मतेन कुविन्दः काव्यरचनायाम् अनभिज्ञः अस्ति ।
( 8 ) डॉ. विक्रमसाराभाईमहोदयः महान् वैज्ञानिकः आसीत् । सः विश्वशान्त्यै विज्ञानस्य पुरस्कर्ता आसीत् । तेन स्वजन्मप्रदेशे गुर्जरराज्ये अहमदाबाद- महानगरे भौतिकविज्ञानस्य ज्ञानप्रसारार्थम् एका प्रयोगशाला स्थापिता । इयं भौतिकी अनुसन्धान-प्रयोगशाला विश्वप्रसिद्धा वर्तते । इयं संस्था ‘पी. आर. एल. ‘ इति संक्षिप्तनाम्ना विख्याता । अत्र खगोलविज्ञानअवकाशविज्ञान-भौति कविज्ञान – इत्यादीनाम् अध्ययनं भवति ।
प्रश्नाः –
( 1 ) डॉ. विक्रमसाराभाई कस्य पुरस्कर्ता आसीत् ?
( 2 ) डॉ. विक्रमस्य जन्मप्रदेश : क: ?
( 3 ) भौतिकी अनुसन्धान-प्रयोगशालायाः संक्षिप्तं नाम किम् ?
( 4 ) भौतिकी अनुसन्धान-प्रयोगशालायां कस्य विषयस्य अध्ययनं भवति ?
उत्तराणि –
( 1 ) डॉ. विक्रमसाराभाई विश्वशान्त्यै विज्ञानस्य पुरस्कर्ता आसीत् ।
( 2 ) गुर्जरराज्यस्य अहमदाबाद- महानगरम् डॉ. विक्रमस्य जन्मप्रदेश: आसीत्।
( 3 ) भौतिकी अनुसन्धान-प्रयोगशालायाः संक्षिप्तं नाम ‘पी. आर. एल.’ इति ।
( 4 ) भौतिकी अनुसन्धान-प्रयोगशालायां खगोलविज्ञानअवकाशविज्ञान- भौतिकविज्ञान – इत्यादीनाम् अध्ययनं भवति ।
( 9 ) अस्ति दक्षिणारण्ये एकः वृद्धः व्याघ्रः । सः स्नातः कुशहस्त: सरस्तीरे ब्रूते – भो भोः पान्थाः ! इदं सुवर्णकङ्कणं गृह्यताम् । ततः लोभाकृष्टेन केनचित्पान्थेन आलोचितं यत् भाग्येन एतत्सम्भवति । किन्तु अस्मिन् आत्मसन्देहे प्रवृत्तिः न विधेया ।
प्रश्नाः –
( 1 ) दक्षिणारण्ये कः अस्ति ?
( 2 ) व्याघ्रः कीदृशः कुत्र च तिष्ठति ?
( 3 ) व्याघ्रः किं ब्रूते ?
( 4 ) लोभाकृष्टेन पान्थेन किम् आलोचितम् ?
उत्तराणि –
( 1 ) दक्षिणारण्ये एकः वृद्धः व्याघ्रः अस्ति ।
( 2 ) व्याघ्रः स्नातः कुशहस्तः च सरस्तीरे तिष्ठति ।
( 3 ) व्याघ्रः ब्रूते – “भो भोः पान्था ! इदं सुवर्णकङ्कणं गृह्यताम्।
( 4 ) लोभाकृष्टेन पान्थेन आलोचितम् – यत् एतत् भाग्येन सम्भवति, किन्तु अस्मिन् आत्मसन्देहे प्रवृत्तिः न विधेया ।
(10) एकदा नृपः दिलीपः सुदक्षिणया सार्धं गुरोः वसिष्ठस्य आश्रममगच्छत्। नृपः सुदक्षिणा च गुरुमरुन्धतीं च प्राणमताम् । वसिष्ठो भूपतिं राज्यविषयकं कुशलमपृच्छत्। दिलीपोऽवदत्, “गुरो, सर्वतः अस्माकं कुशलम्। किन्तु पुत्रालाभात् चित्ते विषादो वर्तते ।” गुरुणा उक्तम्, “नरदेव, धेनुः परमं दैवतम्। ममाश्रमे कामधेनुपुत्री नन्दिनी वसति । तां धेनुं परिचर । तस्याः प्रसादेन तव सुतो भविष्यति । “
प्रश्नाः –
( 1 ) नृपः दिलीपः केन सार्धं कुत्र अगच्छत् ?
( 2 ) दिलीपः सुदक्षिणा च कौ प्राणमताम् ?
( 3 ) दिलीप वसिष्ठाय किम् अकथयत् ?
( 4 ) कस्याः प्रसादेन दिलीपस्य पुत्रप्राप्तिः भविष्यति ?
उत्तराणि –
( 1 ) नृपः दिलीपः स्वपल्या सुदक्षिणया सार्धं वसिष्ठस्य आश्रममगच्छत् ।
( 2 ) दिलीपः सुदक्षिणा च गुरुं वसिष्ठम् अरुन्धतीं च प्राणमताम् ।
( 3 ) दिलीप: वसिष्ठाय अकथयत्, “गुरो, सर्वतः अस्माकं कुशलम्, किन्तु पुत्रालाभात् चित्ते विषादो वर्तते । “
( 4 ) कामधेनुपुत्र्याः नन्दिन्याः प्रसादेन दिलीपस्य पुत्रप्राप्तिः भविष्यति ।
(11) प्रजापतेः त्रयः पुत्राः देवाः मनुष्याः असुराः च आसन् । तेषु देवाः प्रजापतिं प्रथमं प्रार्थितवन्तः यत् अस्मभ्यं हितकारकम् अक्षरम् उपदिशतु इति। तदा प्रजापतिः ‘द’ इति प्रोक्तवान्। अर्थात् दाम्यत इति। अस्यायमाशयः – देवाः संयमं कुर्वन्तु इति प्रजापतेः उपदेशः।
प्रश्ना: –
( 1 ) प्रजापतेः कति पुत्राः आसन् ?
( 2 ) प्रजापति के प्रथमं प्रार्थितवन्तः ?
( 3 ) प्रजापतिः कं वर्णं प्रोक्तवान् ?
( 4 ) ‘दाम्यत’ इत्यस्य कः आशयः भवति ?
उत्तराणि –
( 1 ) प्रजापतेः त्रयः पुत्राः आसन्।
( 2 ) प्रजापतिं देवाः प्रथमं प्रार्थितवन्तः ।
( 3 ) प्रजापति: ‘द’ वर्णं प्रोक्तवान्।
( 4 ) ‘दाम्यत’ इत्यस्य आशयः देवाः संयमं कुर्वन्तु इति भवति ।
(12) आसीत् धारानगर्यां भोजो नाम राजा । सिंहासनम् अधिष्ठितः सः सुप्रबन्धं स्वराज्यं समृद्धमकरोत्। तस्य राज्ये विद्यार्थिनः विद्याभ्यासं, विद्वांसः च अध्यापनं कुर्वन्ति स्म । धनिनः विपत्तौ निर्धनानां साहाय्यं कुर्वन्ति स्म । भोजः एतादृशः गुणग्राही आसीत् यत् यः कोऽपि विद्वान् राजसभायां स्वकीयां कवितां, नवीनम् आविष्कारं वा प्रस्तुतं करोति स्म, स तस्मै विपुलं पुरस्कारम् अयच्छत् । एकदा भोजस्य दानशीलतां दृष्ट्वा तस्य मन्त्री अचिन्तयत् – “एवं नक्तंदिवं धनस्य व्ययेन तु कोशः क्षयं गमिष्यति । “
प्रश्नाः –
( 1 ) भोजो नाम राजा कुत्र आसीत् ?
( 2 ) भोजस्य राज्ये विद्यार्थिनः किं कुर्वन्ति स्म ?
( 3 ) धनिनः विपत्तौ केषां साहाय्यं कुर्वन्ति स्म ?
( 4 ) भोजः कीदृश: गुणग्राही आसीत् ?
उत्तराणि –
( 1 ) धारानगर्यां भोजो नाम राजा आसीत् ।
( 2 ) भोजस्य राज्ये विद्यार्थिनः विद्याभ्यासं कुर्वन्ति स्म ।
( 3 ) धनिनः विपत्तौ निर्धनानां साहाय्यं कुर्वन्ति स्म ।
( 4 ) भोज : ईदृश: गुणग्राही आसीत् यत् कोऽपि विद्वान् राजसभायां स्वकीयां कवितां पठति तस्मै स विपुलं पुरस्कारं अयच्छत् ।
(13) मनोः वंशे दिलीपो नाम भूपालः अभवत् । सुदक्षिणा तस्य वधूः आसीत्। सुदक्षिणया सह दिलीपो नानाविधानि सुखानि अन्वभवत्। परमेकं पुत्रलाभसुखं स नाविन्दत । एकदा दिलीपः सुदक्षिणया सार्धं गुरोः वसिष्ठस्य आश्रममगच्छत् ।
प्रश्ना: –
( 1 ) दिलीपः कस्य वंशे अभवत् ?
( 2 ) सुदक्षिणा कस्य वधूः आसीत् ?
( 3 ) दिलीपः सुदक्षिणया सह किम् अन्वभवत् ?
( 4 ) दिलीपस्य गुरुः कः आसीत् ?
उत्तराणि –
( 1 ) दिलीप: मनोः वंशे अभवत् ।
( 2 ) सुदक्षिणा दिलीपस्य वधूः आसीत्।
( 3 ) दिलीपः सुदक्षिणया सह नानाविधानि सुखानि अन्वभवत्।
( 4 ) वसिष्ठः दिलीपस्य गुरुः आसीत् ।
(14) घृतं स्मृति बुद्धिं शक्तिं च पोषयति, वातं, पित्तं जीर्णज्वरं च नाशयति। घृतं सहस्त्रगुणितं लाभकरं जायते । मात्रानुसारं भोजनं कर्तव्यम् । अतिमात्रं गृहीतममृतमपि विषं भवति ।
प्रश्नाः –
( 1 ) घृतं किं किं पोषयति ?
( 2 ) घृतं किं किं नाशयति ?
( 3 ) घृतं कीदृशं जायते ?
( 4 ) कीदृशं भोजनं कर्तव्यम् ?
उत्तराणि –
( 1 ) घृतं स्मृति, बुद्धि, शक्तिं च पोषयति ।
( 2 ) घृतं वातं, पित्तं जीर्णज्वरं च नाशयति ।
( 3 ) घृतं सहस्त्रगुणितं लाभकरं जायते ।
( 4 ) मात्रानुसारं भोजनं कर्तव्यम् ।
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here