Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 3 परं निधानम्

Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 3 परं निधानम्

સ્વાધ્યાય

प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-
(1) अहं घटपण्डितः ……. |
A. स्मः
B. अस्मि
C. अस्ति
D. सन्ति
उत्तरम् – B. अस्मि
(2) ‘वायुः’ इति शब्दस्य पर्यायशब्दः कः ?
A. वाक्
B. वा
C. वात:
D. वह्निः
उत्तरम् – C. वात:
(3) भूपालः मार्गे सुवर्णखण्डम् ……… |
A. अक्षिपन्
B. अक्षिपः
C. अक्षिपत्
D. अक्षिपम्
उत्तरम् – C. अक्षिपत्
(4) संसारे कीदृशं जनं पराजेतुं कोऽपि न अर्हति ?
A. धनिकम्
B. सन्तुष्टम्
C. वाचालम्
D. बलिष्ठम
उत्तरम् – B. सन्तुष्टम्
(5) अहं दानं ……. |
A. करिष्यति
B. करिष्यामि
C. करिष्यसि
D. करिष्यन्ति
उत्तरम् – B. करिष्यामि
(6) कस्य शिखरे मुकुटं सदा तिष्ठति ?
A. मस्तके
B. मस्तकस्य
C. मस्तकं
D. मस्तकात्
उत्तरम् – B. मस्तकस्य
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
(1) अग्निः कं भस्म करोति ?
उत्तरम् – अग्निः मुद्गरं भस्म करोति ।
(2) राहु: केन शान्तः भवति ?
उत्तरम् – राहुः दानग्रहणेन शान्तः भवति ।
(3) सन्तोष एव कस्य परं निधानम् ?
उत्तरम् – सन्तोष एव पुरुषस्य परं निधानम् ।
(4) भ्रमरः कुत्र बन्दी भवति ?
उत्तरम् – भ्रमरः पुष्पस्य अन्तर्भागे बन्दी भवति ।

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
(1) मुद्गरः स्वकीयेन प्रहारेण कं विनाशयति ?
उत्तरम् – मुद्गरः स्वकीयेन प्रहारेण घटं विनाशयति ।
(2) दानग्रहणेन कस्य गर्वः शान्तः भविष्यति ?
उत्तरम् – दानग्रहणेन युवकस्य गर्वः शान्तः भविष्यति ।
(3) भोजः कस्य देशस्य अधिपतिः आसीत् ?
उत्तरम् – भोजः धारादेशस्य अधिपतिः आसीत् ।
(4) कः घटपण्डितः आसीत् ?
उत्तरम् – नवागन्तुकः युवकः घटपण्डितः आसीत् ।
(5) युवक: स्वात्मानं कं मन्यते स्म ?
उत्तरम् – युवकः स्वात्मानं घटपण्डितं मन्यते स्म ।
(6) राहुः कं ग्रसते ?
उत्तरम् – राहुः सूर्यं ग्रसते ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत-
(1) भोजः नाम नृपतिः प्रजाप्रियः ……। (आसीत्, अस्ति, स्त:)
(2) घटे परिपूर्ण जलं ……. । (तिष्ठतः, तिष्ठति, अतिष्ठत्)
(3) ……. पुरतः वह्निः स्थातुं न शक्नोति । ( वृष्टिम्, वृष्ट्या, वृष्टे 🙂
(4) अहं राहुरूपाय …….. दानं दास्यामि । ( त्वाम्, तुभ्यम्, तव)
(5) मयि परिपूर्ण  ……. वर्तते । (ज्ञानेन, ज्ञानं, ज्ञानाय )
(6) मुद्गरः घटं …….. । (विनाशयति, विनाशयतः, विनाशयन्ति)
(7) अहं …….. भविष्यामि। (भुजगेन, भुजग:, भुजगे)
(8) विष्णु: गरुडारूढः …….. । ( भवन्ति, भवामि, भवति)
(9) सन्तोष एव ……. परं निधानं वर्तते । (पुरुषं, पुरुषस्य, पुरुषाय)
उत्तरम् :-
(1) आसीत्
(2) तिष्ठति
(3) वृष्टे :
(4) तुभ्यम्
(5) ज्ञानं
(6) विनाशयति
(7) भुजग:
(8) भवति
(9) पुरुषस्य

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत-
(1) वह्निः – वहति / अनलः
(2) वायु: – वातः, अनिलः / सलिलम्
(3) विष्णु: – राहु: / जनार्दनः, चक्रधरः
(4) गरुड : – वेनतेयः, गृध्रः / चक्रवाकः
(5) पुष्पम् – अन्तम् / कुसुमम्
(6) भ्रमरः – द्विरेफः, षट्पदः / मराल:
(7) सूर्य : – वह्निः / रविः
(8) गर्व: – अहङ्कारः / सद्भावः
(9) नृपति: – नृप:, पार्थिवः / नटः
(10) घट: – तोयदः / कुम्भः
उत्तरम् –
(1) वह्निः – अनलः
(2) वायुः – वातः, अनिलः
(3) विष्णुः – जनार्दनः, चक्रधरः
(4) गरुड : – वेनतेयः, गृध्रम्
(5) पुष्पम् – कुसुमम्
(6) भ्रमरः – द्विरेफः, षट्पदः
(7) सूर्य : – रविः
(8) गर्व : – अहङ्कारः
(9) नृपतिः – नृपः, पार्थिवः
(10) घट: – कुम्भः
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
(1) उपविष्टः – प्रविष्टः / स्थितः
(2) अहङ्कारः – मदः / नम्रता
(3) पुरतः पृष्ठतः / अग्रतः
(4) उपरि – तिर्यक् / अधः
(5) पण्डित : – मूढ: / सुज्ञ:
(6) अन्तः – बहिः / परितः
(7) लुब्ध: – समृद्धः / अलुब्धः
(8) सन्तुष्टः – असन्तुष्टः / अनभिज्ञः
उत्तरम् –
(1) उपविष्टः × स्थित:
(2) अहङ्कारः × नम्रता
(3) पुरत: × पृष्ठतः
(4) उपरि × अधः
(5) पण्डितः × मूढः
(6) अन्तः × बहि:
(7) लुब्ध: × अलुब्धः
(8) सन्तुष्टः × असन्तुष्टः
प्र. 3. अधोदत्तेभ्यः शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत –
( 1 ) नृपतिः / निधानम् / घटम्
( 2 ) वृष्टिः / तोयम् / गवाक्षः
( 3 ) वाक्केली / वायुः / पुष्पम्
( 4 ) नवागन्तुकः / उक्ति: / मुकुटम्
( 5 ) दानी / चतुरम् / धारा
( 6 ) प्रासाद: / माला / बन्दिनम्
उत्तरम् –
(1) नृपतिः
(2) गवाक्ष :
(3) वायुः
(4) नवागन्तुकः
(5) दानी
(6) प्रासादः
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत-
( 1 ) राहुः / वृष्टिः / शान्तम्
( 2 ) वाक्केली / मुद्गरः / विष्णुः
( 3 ) सभा / प्रहारम् / दहनकर्मा
( 4 ) सर्प: / उक्ति: / बन्दी
( 5 ) वह्निः / देश: / धारा
उत्तरम् –
( 1 ) वृष्टि:
( 2 ) वाक्केली
( 3 ) सभा
(4 ) उक्ति:
( 5 ) धारा
प्र. 5. अधोदत्तेभ्यः रूपेभ्यः वर्तमानकालस्य रूपं चिनुत –
( 1 ) ग्रहीष्यामि / वर्तते / अपश्यत्
( 2 ) तिष्ठति / वर्तिष्येते / गच्छन्तु
( 3 ) करिष्यावः / वहन्ति / पठेत्
( 4 ) सेवन्ते / वदेयुः / भविष्यन्ति
उत्तरम् – 
( 1 ) वर्तते
( 2 ) तिष्ठति
( 3 ) वहन्ति
( 4 ) सेवन्ते प्र.
6. अधोदत्तेभ्यः रूपेभ्यः ह्यस्तनभूतकालस्य रूपं चिनुत-
(1) स्थास्यामि / अपश्यत् / अर्हतः
(2) अवदत् / आह्वयति / करिष्यति
(3) भवति / समागच्छत् / विनाशयति
(4) अस्ति / संतिष्ठते / आसीत्
उत्तरम् –
(1) अपश्यत्
(2) अवदत्
(3) समागच्छत्
(4) आसीत्
प्र. 7. अधोदत्तेभ्यः रूपेभ्यः सामान्य भविष्यकालस्य रूपं चिनुत  –
(1) ग्रहीष्यामः / अपश्यत् / समागच्छतः
(2) अर्हति / नयन्तु / भविष्यति
(3) सेवन्ते / स्थास्यामि / करोतु
(4) वर्तिष्यते / अवदन् / आह्वयन्ति
उत्तरम् –
( 1 ) ग्रहीष्याम:
( 2 ) भविष्यति
( 3 ) स्थास्यामि
( 4 ) वर्तिष्यते
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *