Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 4 वलभी विद्यास्थानम्

Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 4 वलभी विद्यास्थानम्

સ્વાધ્યાય

प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-
(1) प्राचीनसमये गुर्जरराज्ये कः विश्वविद्यालयः आसीत् ?
A. नालन्दाविश्वविद्यालयः
B. तक्षशिलाविश्वविद्यालयः
C. गुजरातविश्वविद्यालयः
D. वलभीविश्वविद्यालयः
उत्तरम् – D. वलभीविश्वविद्यालयः
(2) उपवेदाः कति सन्ति ?
A. अष्टादश
B. चत्वारः
C. सप्त
D. पञ्च
उत्तरम् – B. चत्वारः
(3) भाष्यकारः स्कन्दस्वामी कस्यां शताब्द्यां सञ्जात: ?
A. नवम्याम्
B. चतुर्थ्याम्
C. सप्तम्याम्
D. पञ्चम्याम्
उत्तरम् – B. चतुर्थ्याम्
(4) वलभी केषां राजधानी आसीत् ?
A. क्षत्रपाणाम्
B. मैत्रकाणाम्
C. द्राविडानाम्
D. गुप्तानाम्
उत्तरम् – B. मैत्रकाणाम्
(5) महावीरस्य उपदेशः केन नाम्ना प्रसिद्धः वर्तते ? 
A. आगम:
B. निगमः
C. स्मृति:
D. मीमांसा
उत्तरम् – A. आगम:
(6) वलभीनगरे मिलितायाः जैनसाधूनां समितेः अध्यक्षः कः आसीत्?
A. नागार्जुनः
B. स्थिरमतिः
C. मैत्रक:
D. गुणमति:
उत्तरम् – A. नागार्जुनः
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
(1) प्राचीनकालात् वलभी कस्य केन्द्रमासीत् ?
उत्तरम् – प्राचीनकालात् वलभी अध्ययन-अध्यापनस्य केन्द्रमासीत् ।
(2) वेदाङ्गानि कति सन्ति ?
उत्तरम् – वेदाङ्गानि षट् सन्ति ।
(3) श्रीमल्लवादी सूरिः कः आसीत् ?
उत्तरम् – श्रीमल्लवादी सूरि : जैनाचार्यः आसीत् ।
(4) भगवतः महावीरस्य जन्म कदा अभवत् ?
उत्तरम् – भगवतः महावीरस्य जन्म ख्रिस्तात् पूर्वं प्रायः पञ्चम्यां शताब्द्यां अभवत् ।
(5) जैनसाधूनां समितौ कस्य लेखनस्य प्रस्तावः अभवत्?
उत्तरम् – जैनसाधूनां समितौ आगमग्रन्थानां लेखनस्य प्रस्तावः अभवत् । –

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
(1) पुराकाले भारतदेशे के आसन्?
उत्तरम् – पुराकाले भारतदेशे बहवः विश्वविद्यालयाः आसन् ।
(2) नालंदा विश्वविद्यालयः कस्मिन् राज्ये आसीत् ?
उत्तरम् – नालंदा विश्वविद्यालयः मगधराज्ये आसीत् ।
(3) वलभीविश्वविद्यालये कति विद्यायाः अध्यापनम् अभवत्?
उत्तरम् – वलभीविश्वविद्यालये अष्टादशविद्यायाः अध्यापनम् अभवत् ।
(4) स्कन्दस्वामी कुत्र अवसत् ?
उत्तरम् – स्कन्दस्वामी वलभी उपनगरे अवसत् ।
(5) वलभीविश्वविद्यालये छात्राणां प्रवेशः कथम् अभवत्?
उत्तरम् – वलभीविश्वविद्यालये छात्राणां प्रवेशः प्रवेशपरीक्षा उत्तीर्य एव अभवत् ।
(6) स्कन्दस्वामी कः आसीत् ?
उत्तरम् – स्कन्दस्वामी ऋग्वेदस्य भाष्यकारः आसीत् ।
(7) आगमग्रन्थानां लेखबद्धा वाणी का नाम्ना प्रसिद्धा जाता ?
उत्तरम् – आगमग्रन्थानां लेखबद्धा वाणी वलभीवाचना नाम्ना प्रसिद्धा जाता ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत-
(1) सम्प्रति …….. विश्वविद्यालयाः सुप्रसिद्धाः सन्ति । (विविधम्, विविधे, विविधा:)
(2) वलभीनामकम् उपनगरं …….. । ( वर्तते, वर्तेते, वर्तन्ते)
(3) एषु ……… वलभीविश्वविद्यालयः आसीत् ।  (एकम्, एकेन, एकतमः)
(4) अत्रापि ……..  देशात् जनाः अध्ययनाय आगच्छन्ति स्म । (सुदूरात्, सुसमीपात्, सुग्रामात्)
(5) एतत् …….. यत् गुप्तकाले अत्र वेदाध्ययनमपि प्रचलति स्म । ( सूचयत:, सूचयति, सूचयन्ति ) ।
(6) अत्र यथारुचि यथामति छात्राः …….. । (अपठत्, अपठताम्, अपठन् )
(7) ……… व्यवस्थानुसारम् वादसभायां शास्त्रार्थः भवति स्म । (मैत्रकस्य, मैत्रकयोः, मैत्रकाणाम् )
(8) ख्रितस्य …….. शताब्द्यां वलभीनगरस्य विनाशः अभवत् । ( नवम्यां, नवमे, नवम्याः)
उत्तरम् –
(1) विविधाः
(2) वर्तते
(3) एकतमः
(4) सुदूरात्
(5) सूचयति
(6) अपठन्
(7) मैत्रकाणाम्
(8) नवम्यां / नवम्याम्

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत-
( 1 ) लब्ध्वा प्राप्य / आनीय
( 2 ) सूरि : – जडः / प्राज्ञः, ऋषिः
( 3 ) पारितोषिकम् – उपहारः / आरभ्य
( 4 ) जन्म- जनपद: / जननम्, जनि:
( 5 ) नाम – अभिधानम् / दर्शनम्
( 6 ) अद्यत्वे – एकतमम् / सम्प्रति
उत्तरम् –
( 1 ) लब्ध्वा – प्राप्य
( 2 ) सूरि :- प्राज्ञः, ऋषिः
( 3 ) पारितोषिकम् – उपहार:
( 4 ) जन्म- जननम्, जनिः
( 5 ) नाम – अभिधानम्
( 6 ) अद्यत्वे – सम्प्रति
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) अध्ययनम् – अधितम् / अनध्ययनम्
( 2 ) अत्र – तत्र / कुत्र
( 3 ) मण्डनम् – शोभनम् / खण्डनम्
( 4 ) सुरक्षित: – अरक्षितः / संरक्षितः
( 5 ) पुरा – पूर्वे / अधुना
( 6 ) पुराकाले – वर्तमाने / भविष्ये
उत्तरम् –
( 1 ) अध्ययनम् × अनध्ययनम्
( 2 ) अत्र × तत्र
( 3 ) मण्डनम् × खण्डनम्
( 4 ) सुरक्षित: × अरक्षित:
( 5 ) पुरा × अधुना
( 6 ) पुराकाले × वर्तमाने
प्र. 3. अधोदत्तेभ्यः शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत-
(1) जनपदम् / आगम: / वलभी
(2) महावीरः / नालंदा / मण्डनम् :
(3) शताब्दी / उपनगरम्./ भाष्यकार:
(4) विजयिजनः / पुराणम् / स्मृति
(5) पुरा / जनपद: / वेदाङ्गम्
(6) विश्वविद्यालयः / धन्यम् / चतुर्थी
उत्तरम् –
(1) आगम:
(2) महावीर :
(3) भाष्यकार:
(4) विजयिजन:
(5) जनपद
(6) विश्वविद्यालयः
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत –
( 1 ) अवशेष : / शताब्दी / उपनगरम्
( 2 ) धन्यम् / वेद: / वलभी
( 3 ) केन्द्रम् / मीमांसा / न्यायः
( 4 ) स्मृति: / स्कन्दस्वामी / विद्याव्यासंगम्
( 5 ) विद्या / पूर्वम् / विद्वांस:
( 6 ) पठनम् / राजधानी / केचन
( 7 ) विमर्श: / अनन्तरम् / वाचना
उत्तरम् –
( 1 ) शताब्दी
( 2 ) वलभी
( 3 ) मीमांसा
( 4 ) स्मृति:
( 5 ) विद्या
( 6 ) राजधानी
( 7 ) वाचना
प्र. 5. अधोदत्तेभ्यः शब्दरूपेभ्यः नपुंसकलिङ्गशब्दौ चित्वा लिखत –
( 1 ) भाष्यकार: / छात्रम् / उपनगरम्
( 2 ) जना: / धन्यम् / विद्यायाः
( 3 ) वेदाङ्गम् / उपवेद: / भूमिः
( 4 ) वाणी / पुराणम् / विनाश:
( 5 ) शास्त्रार्थः / मैत्रक: / द्वारम्
उत्तरम् –
( 1 ) उपनगरम्
( 2 ) धन्यम्
( 3 ) वेदाङ्गम्
( 4 ) पुराणम्
( 5 ) द्वारम्
प्र. 6. सन्धिविच्छेदं कुरुत-
( 1 ) पुराकालेऽपि
( 2 ) अत्रापि
( 3 ) यदेकम्
( 4 ) वस्तुतस्तु
( 5 ) तामुत्तीर्य
( 6 ) प्रस्तावोऽभवत्
उत्तरम् –
( 1 ) पुराकालेऽपि = पुराकाले + अपि
( 2 ) अत्रापि = अत्र + अपि
( 3 ) यदेकम् = यत् + एकम्
( 4 ) वस्तुतस्तु = वस्तुतः + तु
( 5 ) तामुत्तीर्य = ताम् + उत्तीर्य
( 6 ) प्रस्तावोऽभवत् = प्रस्तावः + अभवत्
प्र. 7. अधोदत्तेभ्यः रूपेभ्यः वर्तमानकालस्य रूपं चिनुत-
( 1 ) आसीत् / मन्यन्ते / सन्तु
( 2 ) कुर्वन्ति / आगच्छतु / सञ्जातः
( 3 ) अवसत् / पठतु / आगच्छन्ति
( 4 ) वर्तते / पठिष्यति / लभेत
उत्तरम् –
( 1 ) मन्यन्ते
( 2 ) कुर्वन्ति
( 3 ) आगच्छन्ति
( 4 ) वर्तते
प्र. 8. अधोदत्तेभ्यः रूपेभ्यः ह्यस्तनभूतकालस्य रूपं चिनुत- 
( 1 ) वसति / अवसत् / वसेत्
( 2 ) अपठन् / पठेयुः / पठामि
( 3 ) यच्छति / यच्छताम् / अयच्छत्
( 4 ) भवति / अभवन् / भवसि
( 5 ) आसन् / आस्ताम् / सन्तु
उत्तरम् –
( 1 ) अवसत्
( 2 ) अपठन्
( 3 ) अयच्छत्
( 4 ) अभवन्
( 5 ) आसन्
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *