अधोलिखित गद्यांशों को पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार दें –
प्रश्न- अधोलिखित गद्यांशों को पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार दें –
(अ) “छात्रजीवनं नृणां सर्वाङ्गीणविकासार्थम् अतीव महत्त्वपूर्णं भवति। सकल समृद्धिदात्र्याः विद्याया: प्रकाशः अस्मिन् छात्रजीवने एव सुलभो भवति । छात्रजीवने सदाचारस्य संयमनियमपालनस्य महिमा गरीयान् वर्तते । सफलं छात्रजीवनम् मानवतायाः विकासक्रमे प्रथमं सोपानम्। सर्वेषां महापुरुषाणां छात्रजीवनं तेषां व्यक्तिवनिर्माणे महत्त्वपूर्णम् अस्ति ।”
(i) एकपदेन उत्तरत –
(क) विद्याया: प्रकाशः कस्मिन् जीवने सुलभो भवति?
(ख) कस्य पालनं छात्रजीवने गरीयान् वर्तते ?
(ii) पूर्णवाक्येन उत्तरत –
(क) नृणां छात्रजीवनं किमर्थं महत्त्वपूर्ण भवति ?
(ख) मानवतायाः विकासक्रमे प्रथमं सोपानं किम् ?
(iii) अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत।
अथवा,
‘विद्या’ शब्दस्य अर्थः ‘ज्ञानम्’ अस्ति । एषा विद्या महता प्रयत्नेन लभ्यते । विद्यामान् नरः एव सर्वत्र सम्मानं लभते। विद्या मानवस्य सर्वश्रेष्ठम् आभूषणं वर्तते । एषा कुरूपम् अपि सुरुपं करोति । विदेशे बन्धुवत् साहाय्यं करोति । अनया एवं मानवः कीर्ति धनम्-सुखम् च लभते। अतः सर्वैः जनैः स्वजीवने सुखं समृद्धि च प्राप्तुं विद्या प्राप्तये प्रयत्नः करणीयः ।
(I) एकपदेन उत्तरत –
(i) कः सर्वत्र सम्मानं लभते ?
(ii) मानवस्य सर्वश्रेष्ठम् आभूषणं किम् ?
(II) पूर्णवाक्येन उत्तरत –
(i) विद्या विदेशे किं करोति ?
(ii) विद्या प्राप्तये किमर्थं यत्नः करणीयः ?
(III) अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत।
(ब) वर्तमानकाले विज्ञानस्य चमत्कारेषु अन्तरिक्षयानम् अपि वर्तते। अंतरिक्षयानस्य संरचना अतीव जटिला बहुव्ययसाध्या भवति । इदं नैव सामान्येन्धनेन अपितु अणुशक्त्या प्रधावति । अस्यैव सहाय्येन मनुपुत्रेण चन्द्रधरातले निजचरणम् आरोपितम्। सौरमण्डलस्य सदस्यानां ग्रहाणां यात्रा अनेनैव संभवा भविष्यति ।
(i) एकपदेन उत्तरत
(क) अन्तरिक्षयानस्य संरचना कीदृशी भवति?
(ख) ग्रहाणां यात्रा केन संभवा भविष्यति ?
(ii) पूर्णवाक्येन उत्तरत –
(क) अन्तरिक्षयानं अपि केषु वर्तते ?
(ख) इदं कया प्रधावंति ?
अथवा,
पश्य, पश्य! तत्र एकं उद्यानम् अस्ति। उद्यानम् न केवलं सुन्दरम् अपितु विशालम् अपि अस्ति। जनाः न केवलम् मनोरञ्जनाय अपितु विश्रामाय, चित्रस्य आह्लादाय, शुद्धपवनाय च उद्यानेषु भ्रमन्ति। तत्र उन्नताः वृक्षाः, मनोहराणि पुष्पाणि, खगानां च मधुरध्वनिः सर्वेभ्यः जीवेभ्यः सदैव सुखम्एव यच्छति। धनयानि एतादृशानि उद्यानानि ।
(I) एकपदेन उत्तरत –
(i) उद्याने कीदृशाः वृक्षाः सन्ति ?
(ii) उद्याने केषां ध्वनि सुखं यच्छति?
(II) पूर्णवाक्येन उत्तरत –
(i) उद्यानेषु के भ्रमन्ति ?
(ii) उद्यानं कीदृशम् अस्ति ?
उत्तर –
(अ) (i) (क) छात्रजीवने
(ख) सदाचारस्य
(ii) (क) नृणां छात्रजीवनं सर्वांगीण विकासार्थम् अतीव महत्त्वपूर्णम् भवति ।
(ख) मानवतायाः विकासक्रमे प्रथमं सोपानं सफलं छात्रजीवनम् अस्ती ।
(iii) ‘छात्रजीवनम्’ अथवा ‘छात्रजीवनस्य महत्त्वम्’
अथवा,
(I) (i) विद्यावान्
(ii) विद्या
(II) (i) विद्या विदेशे बन्धुवत् साहाच्यं करोति ।
(ii) स्वजीवने सुखं समृद्धिं च प्राप्तं विद्या प्राप्तये प्रयत्नः करणीयः ।
(III) ‘विद्याया: महत्त्वम्’
(ब)
(i) (क) जटिला
(ख) अन्तरिक्षयानेन
(ii) (क) अन्तरिक्षयानम् अपि विज्ञानस्य चमत्कारेषु वर्तते । (ख) इदम् अणुशक्त्या प्रधावति ।
अथवा,
(I) (i) उन्नताः
(II) (i) उद्यानेषु जनाः भ्रमन्ति ।
(ii) खगानाम्
(ii) उद्यानम् न केवलं सुन्दरम् अपितु विशालम् अपि अस्ति।
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here