अधोलिखित गद्यांशों को ध्यानपूर्वक पढ़कर उस पर आधारित प्रश्नों के उत्तर निर्देशानुसार दें –
प्रश्न- अधोलिखित गद्यांशों को ध्यानपूर्वक पढ़कर उस पर आधारित प्रश्नों के उत्तर निर्देशानुसार दें –
(अ) महाभारते व्यासः धर्मं शाश्वतम् अकथयत्- अत; नरेण लोभवशात् भयवशात् च धर्मस्य परित्यागः कदापि न करणीयः । महाभारतं वस्तुतः कौरवपाण्डवयोः युद्धस्य वर्णनमेव चित्रयति । प्रत्येकं वीरस्य गाथां कथारूपेण वर्णयति । कृष्णस्य सारथित्वे अर्जुन: एकाकी एव अनेकान् जयति। महाभारतस्य एकः अंश: गीता नाम्ना विश्वे प्रसिद्धः । अस्याः अनुवाद: विश्वस्य सर्वासु भाषासु विद्वद्भिः कृतः इत्यपि श्रूयते।
(i) एकपदेन उत्तरत –
(क) गीता कस्य अंशः अस्ति ?
(ख)कः एकाकी एव अनेकान् जयति ?
(ii) पूर्णवाक्येन उत्तरत–
(क) महाभारतं किं चित्रयति ?
(ख) किं श्रूयते ?
(iii) अस्य गद्यांशस्य एकं समुचितं शीर्षकं लिखत ।
अथवा,
कस्मिश्चित् प्रदेशे काचित् नदी प्रवहति स्म । नदीतीरे कश्चन संन्यासी स्वशिष्यैः सह आश्रमं निर्माय वसति स्म। एकदा संन्यासी शिष्यैः सह नद्याः अपरं तीरं गन्तुम् एकां नौकाम् आरूढ़वान्। तेन वेगेन प्रवहन्त्यां नद्याम् अकस्मात् एका अपरा नौका शिलायाः घट्टनेन नद्यां निमग्ना अभवत् । तस्यां नौकायां स्थिताः सर्वे जनाः मरणं प्राप्तवन्तः । संन्यासी अकथयत्— तस्यां नौकायां स्थितेषु कश्चित् दुष्टः आसीत् इति मन्ये । अतः ते सर्वे मरणं प्राप्तवन्तः । –
(i) एकपदेन उत्तरत –
(क) संन्यासी कुत्र वसति स्म ?
(ख) संन्यासी कैः सह नौकाम् आरूढ़वान् ?
(ii) पूर्णवाक्येन उत्तरत –
(क) संन्यासी नौकादुर्घटनाया: कारणं किम् अकथयत्?
(ख) वेगेन प्रवहन्त्यां नद्यां किम् अभवत् ?
(iii) अस्य गद्यांशस्य एकं समुचितं शीर्षकं लिखत।
(ब) पुरा शिक्षाविषये अस्मत्पूर्वजानां भारतीयानां यादृशी दृष्टिः आसीत् किंमधुनापि तादृशी एव दृष्टिः अस्ति ? पुरा भारते शुल्करहिता शिक्षा वितीर्यते स्मा पुरा या प्रणाली शिक्षायाः भारते प्रचलिता आसीत् सा अधुना नास्ति । अधुना तु विद्यालयेषु पाठ्यक्रमः एव अध्याप्यते, शिक्षा न उपदीयते ।
(i) एकपदेन उत्तरत –
(क) पुरा भारते कीदृशी शिक्षा वितीर्यते स्म?
(ख) अधुना विद्यालये किम् अध्याप्यते ?
(ii) पूर्णवाक्येन उत्तरत –
(क) का अधुना नास्ति ?
(ख) शिक्षाविषये अधुना कीदृशी दृष्टि : नास्ति ?
अथवा,
मनुष्याणां सुखाय समुन्नतये च यानि कार्याणि आवश्यकानि सन्ति तेषु सर्वतोऽधिकम् आवश्यकं कार्य स्वास्थ्यरक्षा वर्तते । सुखानि अपि स्वस्थाय जनाय एव रोचन्ते यदा जनः रोगपीडितः भवति तदा सः सुखं न अनुभवितुं शक्नोति। अतएव स्वास्थ्य विषये कथितम् अस्ति-शीरमाद्यं खलु धर्मसाधनम्।
(i) एकपदेन उत्तरत –
(क) मनुष्याणां सर्वतोऽधिकम् आवश्यकं कार्यं किम् ?
(ख) स्वस्थाय जनाय एव कानि रोचन्ते ?
(ii) पूर्णवाक्येन उत्तरत –
(क) स्वास्थ्य विषये किं कथितम् अस्ति?
(ख) कथं स्वास्थ्यरक्षा सर्वतोऽधिकम् आवश्यकं कार्यं वर्तते ?
उत्तर –
(अ)
(i) (क) महाभारतस्य (ख) कृष्णस्य सारथित्वे अर्जुनः
(ii) (क) महाभारतं वस्तुतः कौरवपाण्डवयोः युद्धस्य वर्णनमेव चित्रयति ।
(ख) अस्याः अनुवाद: विश्वस्य सर्वासु भाषासु विद्वद्भिः कृतः इत्यपि श्रूयते ।
(iii) महाभारत:
अथवा,
(i) (क) आश्रम निर्माय (ख) शिष्यैः
(ii) (क) संन्यासी अकथयत् तस्यां नौकायां स्थितेषु कश्चित् दुष्टः आसीत् इति मन्ये ।
(ख) वेगेन प्रवहन्त्यां नद्याम् अकस्मात् एका अपरा नौका शिलायाः घट्टनेन नद्यां निमग्ना अभवत् ।
(iii) संन्यासी जीवनम्
(ब)
(i) (क) शुल्करहिता
(ख) पाठ्यक्रम:
(ii) (क) पुरा या प्रणाली शिक्षायाः भारते प्रचलिता आसीत् या अधुना नास्ति ।
(ख) पुरा शिक्षाविषये अस्मत्पूर्वजानां भारतीयानां यादृशी दृष्टि: आसीत् किमधुनापि तादृशी एव दृष्टिः अस्ति।
अथवा,
(i) (क) स्वास्थ्य रक्षा
(ख) सुखानि
(ii) (क) स्वास्थ्य विषये कथितम् अस्ति
शीरमांद्यं खलु धर्मसाधनम्।
(ख) मनुष्याणां सुखाय समुन्नतये च यानि कार्याणि आवश्यकानि सन्ति तेषु सर्वतोऽधिकम् आवश्यक कार्य स्वास्थ्यरक्षा वर्तते ।
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here