अधोलिखित गद्यांशों को पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार दें –
प्रश्न- अधोलिखित गद्यांशों को पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार दें –
(अ) ऋतूनां श्रेष्ठ: वसन्तः अस्ति । अतः स ऋतुराज इति कथ्यते। सर्वे कवयः वसन्तं वर्णयन्तिसंस्कृतस्य महाकवेः कालिदासस्य काव्ये वसन्तस्य शोभा अतीव रमणीया अस्ति। तस्य ‘ऋतुसंहार’ नाम्नि काव्ये षड् ऋतूनां वर्णनं विद्यते। चैत्र वैशाखयोः वसन्तः इति संज्ञा वर्ततेवसन्ते ऋतौ पादपेषु लतासु व नूतनानि किसलयानि प्रस्फुटन्ति। आम्र वृक्षेषु मञ्जर्यः जायन्ते। बहु
विधानि पुष्पाणि वृक्षेषु लतासु च विकसन्ति। आम्राणाम् उद्यानेषु कोकिलाः कुजन्ति। विकसितेषु कुसुमेषु भ्रमराः गुञ्जन्ति।
एकपदेन उत्तरत –
(क) ऋतूनां श्रेष्ठः कः?
(ख) कस्मिन् काव्ये षड्ऋतूनां वर्णनं विद्यते?
पूर्णवाक्येन उत्तरत –
(क) कयोः मासयोः संज्ञा वसन्तः वर्तते ?
(ख) वसन्ततौ कि किं भवति?
अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत।
(ब) जीवने किमपि लक्ष्यम् अवश्यं भवेत्। लक्ष्यहीनं जीवनं तु पशुतुल्यं भवति। लक्ष्यमपि उन्नतं परहितकारकं च भवेत। एतादृशेन लक्ष्येण अस्माकं जीवनम् उत्साहपूर्ण भविष्यति। परोपकारेण एवं मनुष्यः जीवने वास्तविकं सुखं शांति च आप्नोति। यदि जनाः आलोचनां कुर्वन्तु तदाति फलस्य बिना अग्रेगमनम् एव अस्माकं कर्त्तव्यम्।
एकपदेन उत्तरत –
(क) कस्य चिन्तां बिना अग्रे गन्तव्यम् ?
(ख) कीदृशं जीवनं पशुतुल्यम् ?
पूर्णवाक्येन उत्तरत
(क) अस्माकं लक्ष्यं कीदृशं भवेत् ?
(ख) मनुष्यः परोपकारेण् किम् आप्नोति?
उत्तर –
(अ) एकपदेन उत्तरत- (क) वसन्तः (ख) कालिदासस्य पूर्णवाक्येन उत्तरत- (क) चैत्र – वैशाखयोः मासयोः संज्ञा वसन्तः वर्तते ।
(ख) वसन्त ऋतौ वृक्षेषु बहुविधानि पुष्पाणि लतासु च विकसन्ति । कोकिलाः कूजन्ति । शीर्षक: ऋतुराज वसन्तः
(ब) एकपदेन उत्तरत- (क) फलस्य (ख) लक्ष्यहीनं जीवनं पूर्णवाक्येन उत्तरत- (क) अस्माकं लक्ष्यं उन्नतं परहितकारकं च भवेत् । (ख) मनुष्यः परोपकारेण जीवने वास्तविकं सुखं शांति च आप्नोति।
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here