निम्नलिखित में किसी एक पर संस्कृत में सात वाक्यों का अनुच्छेद लिखें
प्रश्न – निम्नलिखित में किसी एक पर संस्कृत में सात वाक्यों का अनुच्छेद लिखें
(i) गङ्गानदी
(ii) संस्कृतम्
(iii) मम ग्रामः
(iv) डॉ० राजेन्द्र प्रसादः
उत्तर –
(i) गङ्गानदी
भारतवर्षस्य नदीषु गङ्गा श्रेष्ठा वर्तते । गङ्गानदी हिमालयात् प्रभवति बंगोपसागरे पतति । पुराकाले भगीरथेन इयं नदी घोरतपसा स्वर्गात् पृथिव्याम् आनीता। गङ्गायाः पुण्योदकेषु स्नानं सर्वकल्मषापहं मन्यते । अनेन स्नानेन चेतः निर्मलं भवति । एषा कृषि क्षेत्राणां सेचन कार्यं सम्पादयति । अस्याः तटयोः अनेकानि तीर्थस्थानानि उद्योगनगराणि च सन्ति ।
(ii) संस्कृतम्
उत्पतेः : दृष्ट्या ‘संस्कृतम्’ संस्कारः, अर्थात् त्रुटिविहिनः शास्त्रम् अथवा भाषा अस्ति। अस्याः भाषायाः ज्ञानम् अति आवश्यकम् अस्ति भारतीय जनानां कृते विशेषतः । संसारस्य सर्वश्रेष्ठानि पुस्तकानि संस्कृते एव लिखितानि सन्ति । यथा – रामायणम्, महाभारतम्, वेद, पुराण, उपनिषदाः, अर्थशास्त्रः, अभिज्ञानशाकुन्तलम् इत्यादयः । बहुनां भारतीयभाषाणां, जननी अस्ति एषा भाषा। 2796 भाषासु मध्ये एका भाषा यत् लेखनं तत् एव उच्चारणं भवति । अस्याः व्याकरणं पाणिनि निर्मितानि सूत्राणि च जगतः आश्चर्यम्।
(iii) सम ग्राम:
मम ग्रामस्य नाम तिलौथू अस्ति । एषः ग्रामः बिहार प्रांतस्य रोहतास मण्डलान्तर्गते अस्ति। एषः ग्रामः शोणनदस्य तटे अवस्थितः अस्ति । अस्मिन् ग्रामे मध्यविद्यालयः, उच्चतर माध्यमिक विद्यालयः, विशालपुस्तकालयः क्रीडाक्षेत्रः, चिकित्सालयः, महाविद्यालयः च सन्ति । एषः ग्रामः कृषिप्रधानः कुटीर उद्योग प्रधानः च अस्ति । अत्रत्याः जनाः विद्युतप्रवाहम्, आधुनिक सञ्चार व्यवस्थाम्, यातायात साधनानि, कृषिकर्मणे यंत्रोपस्कारादिनि च जीवने व्यवहारं कुर्वन्ति । अत्र समाजे सामञ्जस्यम् अपि अस्ति। शुद्धं जलम्, निर्मलो वायुः, स्वपरिश्रमम् अर्जितम् अन्नम्, जनानां च परिमिता संख्याकारणात् एव एषः ग्रामः आदर्शग्रामः अस्ति।
(iv) डॉ० राजेन्द्र प्रसादः
डॉ॰ राजेन्द्र प्रसादस्य जन्म जीरादेई नाम्नि ग्रामे 1884 तमे वर्षे अभवत् । एषः ग्रामः बिहार प्रान्तस्य सारणमण्डलान्तर्गते अस्ति । कुशाग्रबुद्धिः एषः महोदयः सर्वासु परीक्षासु प्रथमश्रेण्यां प्रथमम् एव स्थानं प्राप्तवान्। अस्य जनकस्य नाम महादेवः सहायः आसीत् । प्राथमिकी शिक्षा ग्रामे एव प्राप्तवान्। एषः देशभक्तः स्वतंत्रता सेनानी च आसीत्। यदा भारतः स्वतंत्रः अभवत् तदा सः भारतस्य प्रथमः राष्ट्रपति निर्वाचितः अभवत् ।
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here