निम्नलिखित में से किसी एक विषय पर संस्कृत में सात वाक्यों का अनुच्छेद लिखें
प्रश्न – निम्नलिखित में से किसी एक विषय पर संस्कृत में सात वाक्यों का अनुच्छेद लिखें
(i) पाटलिपुत्रम्
(ii) आदर्शग्राम:
(iii) सरस्वती पूजा
(iv) होलिकोत्सव:
उत्तर –
(i) पाटलिपुत्रम्
सम्प्रति पाटलिपुत्रं बिहारप्रान्तस्य राजधानी अस्ति । अस्मिन् नगरे पटनाविश्वविद्यालयः, गाँधी जैविकोद्यानम्, संजय गाँधिसेतुः महावीरमन्दिरम्, गोलगृहम्, पटनदेवीमन्दिरम्, अगमकुआँ, मौर्यकालिकः अवशेषाः, संग्रहालयः इति एते दर्शनीयाः सन्ति । अस्य तारामण्डलम्, गुरुद्वारा, नगरस्य इतिहासः अतिप्राचीनः अस्ति । इदं नगरं गङ्गायाः तटे स्थितम् अस्ति। अत्र मेगास्थनीज-फाह्यान-ह्वेनसांग – इत्सिगप्रभृतयः वैदेशिकाः यात्रिणः आगतवन्तः । गुप्तवंशकाले अस्मिन् नगरे कौमुदीमहोत्सवः प्रचलितः आसीत् । अस्य नगरस्य व्यवस्था सम्प्रति सम्यक् अस्ति।
(ii) आदर्शग्राम:
मम ग्रामस्य नाम तिलौथू अस्ति । एषः ग्राम: बिहार प्रांतस्य रोहतास मण्डलान्तर्गते अस्ति। एषः • ग्रामः शोणनदस्य तटे अवस्थितः अस्ति । अस्मिन् ग्रामे मध्यविद्यालय, उच्चतर माध्यमिक विद्यालयः, विशालपुस्तकालयः क्रीडाक्षेत्रः, चिकित्सालयः, महाविद्यालयः च सन्ति । एषः ग्रामः कृषिप्रधानः कुटीर उद्योग प्रधानः च अस्ति । अत्रत्याः जनाः विद्युतप्रवाहम्, आधुनिक सञ्चार व्यवस्थाम, यातायात साधनानि, कृषिकर्मणे यंत्रोपस्कारादिनि च जीवने व्यवहारं कुर्वन्ति। अत्र समाजे
सामञ्जस्यम् अपि अस्ति। शुद्धं जलम्, निर्मलो वायुः, स्वपरिश्रमम् अर्जितम् अन्नम्, जनानां च परिमिता संख्याकारणात् एव एषः ग्रामः आदर्शग्रामः अस्ति।
(iii) सरस्वती पूजा
विद्यायाः देवी सरस्वती अस्ति । शिक्षकाः छात्राः च सरस्वत्याः पूजनं सदा कुर्वन्ति । प्रतिवर्षं माघशुक्ल पञ्चम्यां तिथौ सर्वे जनाः पूजनोत्सवः विशेषरूपेण कुर्वन्ति । अस्मिन् अवसरे सरस्वत्याः प्रतिमा विद्यालये, महाविद्यालये, कोचिंगसंस्थाने च जनाः छात्राः च स्थापनं कुर्वन्ति । षोडशोपचारैः सांस्कृतिक प्रतिमायाः प्राणप्रतिष्ठां कुर्वन्ति पूजयन्ति च रात्रौ विद्यालयेषु, महाविद्यालयेषु च छात्राः कार्यक्रमाणाम् आयोजनं कुर्वन्ति । शिक्षकाः छात्राः च नृत्यागीतादिकं कुर्वन् प्रतिमायाः विसर्जनं कुर्वन्ति अपरस्मिन् दिवसे। .
(iv) होलिकोत्सवः
हर्षोल्लासयोः महत्पूर्व ‘होली’ अस्माकं राष्ट्रियः महोत्सवः वर्तते । प्रतिवर्षं चैत्र कृष्ण प्रतिपदायां होलिकोत्सवः सम्पाद्यते। अस्मिन् अवसरे लोकाः परस्परं रंग, अबीरं च आलपन्ति । सर्वस्मिन् गृहे बहूविधानि पक्वानि अन्नानि भुज्यन्ते भोजयन्ते च । एतत् पर्व राष्ट्रस्य एकतायाः प्रतीकम् अस्ति। अयं महोत्सवः सर्वं भेदभावं नष्टं कृत्वा प्रेमभावं प्रसारयति । सत्यम् इदं पर्वं पर्वसु श्रेष्ठम् ।
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here