Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 13 दिष्ट्या गोग्रहणं स्वन्तम् !

WhatsApp Group Join Now
Telegram Group Join Now

Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 13 दिष्ट्या गोग्रहणं स्वन्तम् !

સ્વાધ્યાય

प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-
( 1 ) ‘ब्रूहि केनासि विस्मितः ।’ इति वचनं कस्य?
A. भटस्य
B. विराटेश्वरस्य
C. उत्तरस्य
D. बृहन्नलाया:
उत्तरम् – B. विराटेश्वरस्य
( 2 ) नरेन्द्रेण महानसे कः विनियुक्तः ?
A. बल्लव:
B. अर्जुन:
C. भट:
D. उत्तर:
उत्तरम् – A. बल्लव:
( 3 ) कथमिदानीम् …….. इव मां हस्यते ?
A. अनभिज्ञम
B. सावज्ञम्
D. निरवज्ञम्
C. अपरिचितम्
उत्तरम् – B. सावज्ञम्
( 4 ) धनुः कैः गृह्यते ?
A. दुर्बलै :
B. सैनिकैः
C. राक्षसैः
D. योधैः .
उत्तरम् – A. दुर्बलै :
( 5 ) पितरः केन दर्शिता : ?
A. गोग्रहणेन
B. उत्तरेण
C. बल्लवेन
D. भटेन
उत्तरम् – A. गोग्रहणेन
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
( 1 ) भटः किं प्रियं निवेदयति ?
उत्तरम् – भट: प्रियं निवेदयति यत् ‘गोग्रहणम् अवजितम् धार्तराष्ट्राः च अपयाताः।’
( 2 ) अभिमन्युः केन गृहीतः ?
उत्तरम् – बल्लवनामधारिणा भीमसेनेन अभिमन्युः गृहीतः।
( 3 ) बृहन्नला कस्य कस्य विषये अभिमन्युं पृच्छति ?
उत्तरम् – बृहन्नला अभिमन्युम् तस्य जनन्याः विषये, देवकीपुत्रस्य केशवस्य च विषये पृच्छति ।
( 4 ) भीमसेनस्य सहजं प्रहरणं किम् अस्ति ?
उत्तरम् – भीमसेनस्य सहजं प्रहरणं तस्य भुजौ स्तः ।
( 5 ) उत्तरः कस्य पूजां कर्तुं कथयति ?
उत्तरम् – उत्तर: अत्रभवतः धनञ्जयस्य (अर्जुनस्य) पूजां कर्तुं कथयति ।

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
( 1 ) ‘अस्माकं कुले आत्मश्लाघा उचिता नास्ति ।’ एतत् वाक्यं कः वदति ?
उत्तरम् –‘अस्माकं कुले आत्मश्लाघा उचिता नास्ति ।’ एतत् वाक्यं अभिमन्युः वदति ।
( 2 ) ‘सौभद्रः’ इति शब्दस्य कः अर्थः भवति ?
उत्तरम् – ‘सौभद्रः’ इति शब्दस्य अर्थः सुभद्रायाः पुत्रः अभिमन्युः भवति ।
( 3 ) विराटेश्वरस्य महानसे बल्लवः कः अस्ति ?
उत्तरम् – विराटेश्वरस्य महानसे बल्लवः भीमसेनः अस्ति ।
( 4 ) जरासन्धं कः पञ्चत्वम् अनयत् ?
उत्तरम् – भीमसेनः जरासन्धं पञ्चत्वम् अनयत् ।
( 5 ) ‘दिष्ट्या गोग्रहणं स्वन्तम्’ नाट्यांशस्य रचयिता कः अस्ति ?
उत्तरम् – ‘दिष्ट्या गोग्रहणं स्वन्तम्’ नाट्यांशस्य रचयिता महाकविः भासः अस्ति।
( 6 ) राजा क्षत्रियकुमारं कीदृशं वदति ?
उत्तरम् – राजा क्षत्रियकुमारम् उत्सिक्तः वदति ।
( 7 ) गोग्रहणम् अवजितं तदा के अपयाताः ?
उत्तरम् – गोग्रहणम् अवजितं तदा कौरवाः अपयाताः।
( 8 ) अभिमन्योः मातुलः कः अस्ति ?
उत्तरम् – जनादर्न: (श्रीकृष्णः) अभिमन्योः मातुलः अस्ति ।
( 9 ) अभिमन्युः कीदृशेन भीमसेनेन गृहीतः ?
उत्तरम् – अभिमन्युः पदातिना भीमसेनेन गृहीतः ।
(10) ‘अथ केनायं गृहीतः ?’ इति उक्त्वा राजा कस्य दर्पप्रशमनं करोति ?
उत्तरम् –‘अथ केनायं गृहीतः ?’ इति उक्त्वा राजा अभिमन्योः दर्पप्रशमनं करोति ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत –
( 1 ) प्रियं निवेदये ……. | ( महाराजं, महाराजाय, महाराजे )
( 2 ) …….. ग्रहणं गतः । (सुभद्रा, सौभद्रेण, सौभद्रः)
( 3 ) यः किलैष नरेन्द्रेण ……. विनियुक्तः बल्लवः, तेन । (महानसम्, महानसे, महानसौ)
( 4 ) अहमस्य दर्पप्रशमनं …….. । (करोति, कुरुत:, करोमि )
( 5 ) यः खलु जरासन्धं पञ्चत्वम् ……..। (अनयत्, अनयताम्, अनयन्)
( 6 ) …….. स्वच्छन्दप्रलापेन। (इतः, अलम्, अपि)
उत्तरम् –
( 1 ) महाराजाय
( 2 ) सौभद्रः
( 3 ) महानसे
( 4 ) करोमि
( 5 ) अनयत्
( 6 ) अलम्

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) महानस: – पाकगृहम् / अमरालयः
( 2 ) भट: – भट्ट : / ‘योधः
( 3 ) जय: – पराजित: / विजयः
( 4 ) शर:- बाणः / समय:
( 5 ) प्रहरणम् – क्षिप्तम् / शस्त्रम्, अस्त्रम्
( 6 ) अभिगत: – निर्गतः/ सम्मुखमागतः –
( 7 ) बल्लवः – ब्राह्मणः / पाचकः
( 8 ) धनञ्जयः – पार्थः / जरासन्धः
उत्तरम् –
( 1 ) महानस:- पाकगृहम्
( 2 ) भट: – योधः
( 3 ) जयः – विजयः
( 4 ) शर:- बाणः
( 5 ) प्रहरणम् – शस्त्रम्, अस्त्रम्
( 6 ) अभिगतः – सम्मुखमागतः
( 7 ) बल्लवः – पाचक:
( 8 ) धनञ्जयः – पार्थः
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत-
( 1 ) महान् – लघुः / महत्
( 2 ) श्रद्धेयम् – आत्मानम् / अश्रद्धेयम्
( 3 ) जयः – पराजयः / विजयः
( 4 ) अपयात : – गृहीतः / परिरक्षित:
( 5 ) सत्कृत्य – असत्कृत्य / कृतकर्माणः
उत्तरम् –
( 1 ) महान् × लघुः
( 2 ) श्रद्धेयम् × अश्रद्धेयम्
( 3 ) जय: × पराजय :
( 4 ) अपयात: × गृहीत:
( 5 ) सत्कृत्य × असत्कृत्य
प्र. 3. अधोदत्तेभ्यः शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत –
( 1 ) विराटेश्वरः / बृहन्नला / पापम् –
( 2 ) निष्क्रान्ता / नरेन्द्रः / जननी
( 3 ) उत्तर : / उत्तरा / आत्मश्लाघा
( 4 ) शङ्काम् / पदातिः / अवजितम्
( 5 ) सौभद्रः / शिला / प्रहरणम्
( 6 ) धर्मराजः / कथाम् / सावज्ञम्
( 7 ) स्त्री / गता / धनञ्जयः
उत्तरम् –
( 1 ) विराटेश्वर :
( 2 ) नरेन्द्रः
( 3 ) उत्तर:
( 4 ) पदातिः
( 5 ) सौभद्रः
( 6 ) धर्मराजः
( 7 ) धनञ्जयः
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः नपुंसकलिङ्गशब्दौ चित्वा लिखत –
( 1 ) बृहन्नला / मातुलः / प्रहरणम्
( 2 ) उत्सिक्तः / गोग्रहणम् / पदातिः
( 3 ) वाक्यशौण्डीर्यम् / कुमारः / कथाम्
( 4 ) सुखम् / जननी / केशव:
उत्तरम् –
( 1 ) प्रहरणम्
( 2 ) गोग्रहणम्
( 3 ) वाक्यशौण्डीर्यम्
( 4 ) सुखम्
प्र. 5. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत –
( 1 ) बृहन्नला / भीमसेनः / पदातिः
( 2 ) भट: / जननी / राजा
( 3 ) देवकी / सौभद्रः / शर:
( 4 ) ग्रहणं / महानसः / कथा
उत्तरम् –
( 1 ) बृहन्नला
( 2 ) जननी
( 3 ) देवकी
( 4 ) कथा
प्र. 6. सन्धिविच्छेदं कुरुत –
( 1 ) केनासि
( 2 ) सौभद्रो ग्रहणम्
( 3 ) किलैषः
( 4 ) यन्मां पितृवदाक्रम्य
( 5 ) चाक्षयसायके
( 6 ) चादाय
( 7 ) तत्तुल्यम्
उत्तरम् –
( 1 ) केनासि = केन + असि
( 2 ) सौभद्रो ग्रहणम् = सौभद्रः+ ग्रहणम्
( 3 ) किलैषः = किल + एषः
( 4 ) यन्मां पितृवदाक्रम्य = यत् + माम् + पितृवत् + आक्रम्य
( 5 ) चाक्षयसायके = च + अक्षयसायके
( 6 ) चादाय = च + आदाय
( 7 ) तत्तुल्यम् = तत्त + तुल्यम्
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *