Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 15 सुदुर्लभा सर्वमनोरमा वाणी ।

WhatsApp Group Join Now
Telegram Group Join Now

Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 15 सुदुर्लभा सर्वमनोरमा वाणी ।

સ્વાધ્યાય

प्र. 1. अधोलिखितेभ्यः विकल्येभ्यः समुचितम् उत्तर चिनुत-
( 1 ) कस्मैचित विरलाय जनाय कः रसः रोचते ?
A. हास्यरसः
B. करुणरसः
C. बीभत्सरसः
D. शृङ्गाररसः
उत्तरम् – C. बीभत्सरसः
( 2 ) आर्षेण संस्कारेण संस्कृताय जनाय कीदृशी वाणी रोचते ?
A. कर्कशा
B. ऋज्वी
C. कुटिला
D. स्पष्टा
उत्तरम् – B. ऋज्वी
( 3 ) परस्य दुर्गुणानुवादः कस्मै रोचते ?
A. ईर्ष्याग्रस्ता
B. दयागस्ताय
C. मानग्रस्ताय
D. अपमानगस्ताय
उत्तरम् – A. ईर्ष्याग्रस्ता
( 4 ) स्नेहपूर्णामपि वाण के भावयितुं न पारयन्ति ?
A. मन्दा:
B. पण्डिताः
C. साधवः
D. नीतिज्ञा:
उत्तरम् – A. मन्दा:
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
( 1 ) कर्कशां वाणीं कः कस्मै वदति ?
उत्तरम् – यः जडः दुर्व्यसनरतः अलसः च सेवकः भवति, तस्मै तस्य अधिपः प्रायः कर्कशां वाणीं वदति ।
( 2 ) ईर्ष्याग्रस्ताय स्वस्य किं रोचते ?
उत्तरम् – ईर्ष्याग्रस्ताय स्वस्य गुणानुवादः रोचते ।
( 3 ) के हितमपि अनुशासनं न सहन्ते ?
उत्तरम् – केचन असूयकाः हितमपि अनुशासनं न सहन्ते ।
( 4 ) जनान् आनन्दयितुं कीदृशी वाणी प्रयोक्तव्या ?
उत्तरम् – जनान् आनन्दयितुं संस्कृता वाणी एव सततं प्रयोक्तव्या ।

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
( 1 ) अयं संसारः कीदृशः अस्ति ?
उत्तरम् – अयं संसार: विचित्ररुचिः अस्ति ।
( 2 ) सर्वेभ्यः जनेभ्यः कः रसः रोचते ?
उत्तरम् – सर्वेभ्यः जनेभ्यः हास्यरसः रोचते ।
( 3 ) केचन असूयकाः किं न सहन्ते ?
उत्तरम् – केचन असूयका : हितमपि अनुशासनं न सहन्ते ।
( 4 ) किम् अल्पज्ञानं न संतोषयति ?
उत्तरम् – सर्वाङ्ग, सुन्दर, सरसं सुभाषितमपि अल्पज्ञानं न संतोषयति ।
( 5 ) कीदृशः नरः किल्विषी भवति ?
उत्तरम् – यः नरः सभायां अब्रुवन् वा विब्रुवन् सः किल्विषी भवति ।
( 6 ) कस्मै मृद्वी ऋज्वी च वाणी रोचते ?
उत्तरम् – यः खलु आर्षेण संस्कारेण संस्कृतो भवति, तस्मै मृद्वी ऋज्वी च वाणी रोचते ।
( 7 ) कस्मैचित् जनाय किं रसयति ?
उत्तरम् – कस्मैचित् जनाय काव्यं रसयति।
( 8 ) का वाणी सर्वस्य मानसं संतोषयितुं न अर्हति ?
उत्तरम् – एका एव वाणी सर्वस्य मानसं संतोषयितुं न अर्हति ।
( 9 ) सज्जनाय किं न रोचते ?
उत्तरम् – सज्जनाय परापवादः न रोचते ।
(10) सर्वेऽपि जनाः कीदृशाः न भवन्ति ?
उत्तरम् – सर्वेऽपि जनाः विचक्षणाः न भवन्ति ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत-
( 1 ) …… यद्वस्तु एकस्मै रोचते, तदन्यस्मै न रोचते । (लोकम्, लोके, लोकात्)
( 2 ) एकस्मिन परिवारे जातानां जनानामपि भिन्ना भिन्ना रुचिः …….. । (भवति, भवतः, भवन्ति)
( 3 ) ……. शृङ्गारः प्रियः भवति । ( कश्चित्, कस्मैचित्, कस्मै)
( 4 ) एका एव वाणी सर्वस्य मानसं ……. नार्हति । ( सन्तुष्टम्, सन्तोष्य, सन्तोषयितुम् )
( 5 ) असूयका : हितमपि अनुशासनम् न …….. । (सहते, सहन्ते, सहेते)
( 6 ) …….. सन्ति इति यवाः नोपयन्ते। (मृगः, मृगेणः, मृगा:)
उत्तरम् –
( 1 ) लोके
( 2 ) भवति
( 3 ) कस्मैचित्
( 4 ) सन्तोषयितुम्
( 5 ) सहन्ते
( 6 ) मृगाः

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) सेवक : – अनुचरः, दासः / स्वामी
( 2 ) नानात्वम् – विरलम् / वैविध्यम्
( 3 ) अलसः – अनुद्यमः / उद्यमः
( 4 ) अधिपः आतुरः / भर्ता
( 5 ) तूष्णीम् = मूकम् / वाचालः
उत्तरम् –
( 1 ) सेवक : – अनुचरः, दासः
( 2 ) नानात्वम् – वैविध्यम्
( 3 ) अलसः – अनुद्यमः
( 4 ) अधिपः – भर्ता
( 5 ) तूष्णीम् – मूकम्
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) किल्विषी – पापी / पुण्यशाली
( 2 ) जातानाम् – मृतानाम् / गतानाम्
( 3 ) कुटिल : – कठिनः / ऋजुः
( 4 ) प्रवृत्ता – निवृत्ता / सद्वृत्ता
( 5 ) हास्यरस : – वीररसः / करुणरस:
( 6 ) दुर्गुणानुवादः – गुणानुवादः / सगुणानुवादः
उत्तरम् –
( 1 ) किल्विषी × पुण्यशाली
( 2 ) जातानाम् × मृतानाम्
( 3 ) कुटिल × ऋजुः
( 4 ) प्रवृत्ता × निवृत्ता
( 5 ) हास्यरस: × करुणरसः
( 6 ) दुर्गुणानुवादः × गुणानुवादः
प्र. 3. अधोदत्तेभ्यः शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत –
( 1 ) शृङ्गारः / स्थाली / प्रयोजनम्
( 2 ) भिन्ना / परापवादः / शिल्पम्
( 3 ) अज्ञ: / एका / अनुशासनम्
( 4 ) सुभाषितम् / कर्कशा / असूयकः
( 5 ) समितिः / विचक्षणः / काव्यम्
( 6 ) जडः / वाणी / तूष्णीम्
उत्तरम् –
( 1 ) शृङ्गारः
( 2 ) परापवादः
( 3 ) अज्ञ:
( 4 ) असूयकः
( 5 ) विचक्षणः
( 6 ) जड:
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत-
( 1 ) स्थाली / वीरः / शिल्पम्
( 2 ) अधिपः / सुन्दरम् / संस्कृता
( 3 ) मृदुः / समिति / मनुः
( 4 ) जातः / सरसम् / सुदुर्लभा
( 5 ) दुर्व्यसनरतः / रुचि: / मन्दः
( 6 ) परः / मानसम् / मनोरमा
( 7 ) लवणम् / ऋज्वी / यवः
उत्तरम् –
( 1 ) स्थाली
( 2 ) संस्कृता
( 3 ) समिति :
( 4 ) सुदुर्लभा
( 5 ) रुचि :
( 6 ) मनोरमा
( 7 ) ऋज्वी
प्र. 5. अधोदत्तेभ्यः शब्दरूपेभ्यः नपुंसकलिङ्गशब्दौ चित्वा लिखत –
( 1 ) कुटिला / शिल्पम् / पुत्र:
( 2 ) प्रयोजनम् / जनम् / कर्कशा
( 3 ) समितिः / अल्पज्ञः / अनुशासनम्
( 4 ) सुभाषितम् / सभा / हास्यरसः
( 5 ) वाणीम् / सज्जनः / मानसम्
( 6 ) किल्विष / मधुर : / भिन्ना
उत्तरम् –
( 1 ) शिल्पम्
( 2 ) प्रयोजनम्
( 3 ) अनुशासनम्
( 4 ) सुभाषितम्
( 5 ) मानसम्
( 6 ) किल्विष
प्र. 6. अधोदत्तेभ्यः रूपेभ्यः ह्यस्तनभूतकालस्य रूपं चिनुत –
( 1 ) सहते / सहन्ते / असहत
( 2 ) भवसि / अभवत् / भविष्यति
( 3 ) अधिश्रियेते / अधिश्रियन्ते / अधिश्रियन्
( 4 ) समपादयत् / समपादयते / समपादयसि
( 5 ) अस्ति / स्त: / आसीत्
( 6 ) ब्रवीति / अब्रुवन् / ब्रूयात्
उत्तरम् –
( 1 ) असहत
( 2 ) अभवत्
( 3 ) अधिश्रियन्
( 4 ) समपादयत्
( 5 ) आसीत्
( 6 ) अब्रुवन्
प्र. 7. सन्धिविच्छेदं कुरुत –
( 1 ) यद्वस्तु
( 2 ) बीभत्सरसोऽपि
( 3 ) तस्याधिपः
( 4 ) वापि
( 5 ) सन्तीति
( 6 ) नोप्यन्ते
उत्तरम् –
( 1 ) यद्वस्तु = यत् + वस्तु
( 2 ) बीभत्सरसोऽपि = बीभत्सरसः + अपि
( 3 ) तस्याधिपः = तस्य + अधिपः
( 4 ) वापि = वा + अपि
( 5 ) सन्तीति = सन्ति + इति
( 6 ) नोप्यन्ते = न + उपयन्ते
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *